पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऐक्यमात्मस्वरूपं हि ज्ञानानन्दादिरूपबत् । निरपेक्षतयैक्यस्य निरपेक्षात्मरूपता ॥ ५१ ॥ तत्वमस्यादिमानं स्याद्भेदे ब्रह्मजीवयोः । विरुद्वांशपरित्यागात्सोऽयमित्यादिवङ्रुवं ॥ ५२ ॥ त्यागो विरुद्धरूपस्याविवक्षामात्रतो मतः । ॥ भेदश्रुतेः षड्विधतात्पर्यलिङ्गभङ्गः ॥ नन्वैक्यमात्मस्वरूपमुतान्यत् नाद्यः एकतरपरिशेषाद्यापत्तेः सापेक्यस्य निरपेक्षात्मत्वायोगाश्च नान्यः सत्यत्वे अद्वैतहानि मिथ्यात्वे तत्त्वमसीत्यादेरतत्वाचेदकत्वापत्तेरित्याशङ्काद्यमेवान वद्यामत्याह ऐक्यमिति' ' । ज्ञानानन्द्योरात्मैक्येऽपि यथा नैकतरपरिशेषपर्यायत्वादिकं कल्पितानन्दस्वादिधर्मातू तथा प्रकृ तेऽपि सम्भवातू ऐक्ये अभिज्ञेयत्वस्य प्रागुक्तो: तस्याऽऽपि निरपेक्ष तया निरपेक्षात्मरूपत्वाविरोधात अज्ञानाद्यधिष्ठानतया भासमा नात्मरूपत्वेऽपि ऐक्यस्य तद्रोचवरवृत्तिविशेषस्याज्ञाननिवर्तकस्येदा नीमसत्वात्संसारोपपत्तिरपीति तात्पर्यार्थः ॥ ५१ ॥ शून्यस्य नि:- खरूपत्वान्न शून्यस्यैक्यरूपताऽतो जीवब्रह्माभदे ‘तत्त्वमस्ययमात्मा ब्र'त्यादिश्रुतिर्मानमित्याह--- * ** तत्त्वमिति ? ॥ ५२ ॥ ४ ४ ननु सार्धझ्यासार्वश्यादिविशिष्टयोरैक्यमयोग्यतापराहृतं कथमुदा तश्रुत्या बोध्यमित्यत आह -“विरुद्धांशेति’ । सोऽयमित्यादाविव विरुद्धाकारत्यागेन शुद्धयोरैक्यबोधनं युक्तमित्यर्थः । ननु विरुद्धाका रत्यागो किमविवक्षामात्रेण उतानित्यत्वेन उत मिथ्यात्वेन नाद्यः वि सबै ब्रहो. त्यादिश्रुत्या सत्त्वशन्यत्वयोश्चित्त्वजडत्वयोर्वेहाविवक्षामा