पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदै प्रत्यक्षसिद्धभेदानुवादित्वेन न तत्परा ॥ ४३ ॥ व्यावहारिकभेदे वा तत्पराऽस्त्वर्थवादवत् । प्रामाण्यं वैपरीत्यं वा विरोधेनाभिदाश्रुतेः ॥ ४४ ॥ तात्पयलिङ्गवत्वात्स्यात्प्राबल्यमाभदाश्रुतः । यत्र भेदश्रुतिर्मुक्तौ सा मुक्तिः स्यादवान्तरा ॥ ४५ ॥ परमुक्तौ न भेदोऽस्ति सर्वेद्वैतनिषेधनात । विस्तरेण प्रकारोऽयं ज्ञेयो भावप्रकाशतः॥ ४६ ॥ अजोऽन्थ इत्यादौ त्रिकालाबाध्यत्वबोधकपदाभावातू भेदनिषेधक त्प्रतिप्रसवायोगातू प्रत्यक्षसिद्धभेदानुवादित्वमेवेत्यर्थः ॥ ४३ ॥ ॥ भेदश्रुतेरनुवादकत्वोपपति: ॥ अथवाऽनुवादत्वाभावेऽपि व्यावहारिकभेदपरत्वेनैव श्रुत्युपपत्तिरि त्याह--* व्यावहारिकेति ?” । न चाप्रामाण्यापातः अर्थवाद्वा वयवत्तदुपपत्तेः प्रतीयमानार्थे वा ऽभेदश्रुतिविरोधेनाप्रामाण्यस्येष्ट त्वाचेत्यर्थः ॥ ४४ ॥ षड्विधतात्पर्यलिङ्गवत्वादैक्यश्रुतेः प्राबल्यमि त्याह-* तात्पर्येति ? । ननु नायं भेदो व्यावहारिको मुक्ताव ििप भेदस्य श्रुतिस्मृतिभ्यां सिद्धेरित्याशङ्कयाह-* यत्रेति ? । तस्या मुक्तरवान्तरत्वात् । नन्धिदं 'शानमुपाश्रित्ये'त्यादिना सा परमा मुक्तिरित्यत आह -* परेति ? । परममुक्तौ भेदस्याप्रसक्तः व्यावहारिकत्वोपपत्त्या भेदश्रुतेव्यवहारिकभेद्परत्वमेवेति सिद्धं अयै प्रकारो विस्तरेणास्मत्कृते गीताभावप्रकाशे द्रष्टव्य इ त्यर्थः. ॥ ४६ ॥ । भेदश्रुतेव्यवहारिकभेदपरत्वोपपतिः ।