पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदश्रुतेरनुवादकत्वोपपत्तिः । डौ चन्द्राविति वन्मिथ्या भेदेनाप्युपपत्तिः । न वास्तवस्य भेदस्याक्षेपकत्वं भवेद्विरः ॥ ३९ ॥ अतो नैवोत्तराडेपेि तात्विकं भेदमाह सा । बुद्धिजीवपरत्वेन व्याख्याता श्रुतिरन्यथा ॥ ४० ॥ चेतनश्रेतनानां य आत्मन्नित्यादिवेंदगीः । आधाराधेयभावादेस्तात्विकत्वे न तत्परा ॥ ४ १ ।। किन्तु काल्पनिक भेदमादायैवोपपद्यते । श्रुत्यन्तरविरोधाच न सा भेदपरा श्रुतिः ॥ ४२ ॥ त्रिकालाबाध्यताबोधिपदाभावादजाश्रुतिः । यमातू श्रुतद्धित्वार्थपत्तिसमधिगतस्याऽपि भेवस्यः श्रौतत्वमित्या शङ्क निरस्यति–“ द्वाविति ' ॥ ३९ ॥ अत एव नोत्तरार्द्ध स्यापि तात्विकभेदपरत्वं । वस्तुतस्त्वस्याः श्रुतेः पैङ्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवेशभेदपरत्वस्य वक्तुमशक्य त्वादित्याह-“अतइति' ॥ ४० ॥ “य आत्मनि तिष्ठ'न्नित्या जोन्य' इत्यत्र भेदव्यपदेशस्य च काल्पनिकभेदमादायाप्युपपत्त दतात्विकत्वापर्यवसायित्वा श्रुत्यन्तरविरोधाच्च न भेदे कस्या अपि श्रुनेस्तात्पर्यमित्याह-“चेवतन' इति द्वाभ्यां ॥ ४१ ॥ ४२ ॥ नचैतच्छ्रुतिविरोधात्सैव श्रुतिरन्यपरा भेदश्रुतेः प्रत्यक्षसिद्ध वादित्याह-* त्रिकालेति