पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारें । [२ परिच्छेदे एवं जडानामन्योन्यभेदेनानुमितिः प्रमा । धम्र्यादिकविकल्पैकग्रासत्रासानपायत : ॥ ३६ ।। मिथ्यात्वसाधकानां हेि हेतूनां प्रबलत्वतः । तैर्बीधान्नानुमानं ते जडानां भेदसाधकम् ॥ ३७ ॥ द्वासपणेति पूर्वाधे न प्रमेयो भिदेक्ष्यते । अपदार्थतया तद्वदवाक्यार्थतयाऽस्य च ॥ ३८ ॥ एवं जडानां परस्परमेदे नानुमानमित्याह-* एवमिति घटस्तत्वतः शुक्तयभिन्नो न शुक्तिसम्बद्धकालासम्बन्धित्वातू तज्ज नकाजन्यत्वात् तत्रारोपितरूप्यधत्तू व्यावहारिकभेदस्य त्वयाऽप्य ङ्गीकारेण न पक्षदृष्टान्ताद्यनुपपति: अन्यथा भेदसिद्धयसिद्धयो-. दर्दोषतदभावयोश्धाभेदेन स्वप्रक्रियाविरोधः स्यादित्यत्र तात्विकशु त्यभिन्नत्वरूपप्रतियोग्यप्रसिद्धया साध्याप्रसिद्धे: तत्वत इत्यस्य ने त्यत्र विशेषणत्वे सुतरामप्रसिद्धेः घटादिसमसत्ताकभेदमात्रेण हे तोरुपपत्या अप्रयोजधकत्वाश्च भेदस्य तात्विकत्वे बाधस्योक्तत्वेन था धाश्चेत्यर्थः ॥ ३६ ॥ मिथ्यात्वसाधकानां प्राबल्यस्योक्तत्वेन तैर्वाधाश्च न भेदेऽनुमानोदय इत्याह-“ मिथ्यात्वेतेि ११ । तस्माद्वेदपञ्चकं नानुमानविषय इति भावः ॥ ३७ ॥ ॥ भेदपञ्चकेऽनुमानभङ्गः ॥ ननु भेदतात्विकत्वे 'द्वासुपर्ण' ' य आत्मनि तिष्ठन्' *नित्यो नित्यानां चेतनश्चेतनानां’ ‘अजोह्येको जुषमाणोऽनुशेते जहात्येनाँ भुक्तभोगाभजोन्य’ इति श्रुतयो भानमित्याशङ्काह -“ द्वेति ॥ ३८ ॥ ननु द्वित्वस्य स्वाश्रयप्रतियोगिकभेद्समानाधिकरणत्वनि