पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औपाधिक्षभेदेन व्यवस्थोपपादनम् । १७५ संसार्यननस्सन्धानं स्वतः ॥ २३ ॥ स्वसुखानुभवः अविद्याध्वस्तिमोक्षस्य गतत्वेऽपि विदद्वये । तत्रैवोपहिते बन्धो न तेनास्ति भिदा तयोः ॥ २४ ॥ उपाधेः कल्पितत्वेन निवृतावपि तात्विकम् । उपधेयस्वरूपं नो मुक्तौ जातु निवर्त्तते ॥ २५ ॥ नो वैथधिकरण्यं स्यादात्मनो बन्धमोक्षयोः । विशिष्ट भोक्तृता सिद्धा न शुद्धे सा सुखात्मनि ॥२६॥ तस्याजन्यत्वेवनान्त करणानपेक्षत्वादित्यर्थः ॥ २३ ॥ नन्ववमनेनकाविद्यासम्बन्धस्य दुःखानुसन्धानरूपस्यानर्थस्य च विशिष्टगतत्व बन्धमोक्षयोवैयधिकरण्यापातेन शुद्धगतत्वे वाच्ये यच्छुद्ध चैत्रीयदुःखानुसन्धातृ तदेव मैत्रीयदुःखानुसन्धातृ इति कथमनुसन्धानव्यवस्थेत्याशङ्कयाह-* अविद्येति ? ” । अविद्या त्मकबन्धनिवृत्त्यात्मकमोक्षस्य शुद्धगतत्वेऽपि दु:खाद्यनुसन्धातृत्व स्योपहितवर्तितया शुद्धभेदापादनायोगात् न च संसारस्य शुद्ध गतत्वे ब्रह्मषोऽपि संसारित्वापत्तिः बिम्बप्रतिधिम्बयोरवदातत्व परिच्छिन्नत्वापरिच्छिन्नत्वधवत् एकस्यैव नभसस्तत्तत्कर्णपुटावच्छेदेन तत्तच्छेोत्रतावञ्च उौपाधिक भेदेन संसारित्वासंसारित्वव्यवस्थोपपत्तेरित्यर्थः ॥ २४ ॥ ननु दु:खाद्यनुसन्धानरूपस्यानर्थस्योपहितनिष्ठत्वेन तस्य कल्पितत्वेन ब द्धस्य निवृत्तिरेव न तु मोक्ष इत्यापात इत्याशङ्का निरस्यातेि --

  • उपाधरतेि ॥ २५ ॥ अत एव न बन्धमोक्षयोवैयधिकर

ण्यमित्याह-* नांते । उपाधिसम्बन्धेन भोक्तृतोपलक्षित संसारस्तद्विरहे स्वरूपावस्थानं मोक्षोऽपीत्यर्थः ॥ २६ ॥ पक्षान्तरेणापि