पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अविद्यात्मकबन्धस्य शुद्धवस्तुगतत्वतः । सामानाधिकरण्यं स्यादेवं वा बन्धमोक्षयोः ॥ २७ ॥ अनुसन्धातृतापष्टा शुद्धेऽवस्थात्रयानुगे । सर्वदेहेषु शुद्धस्यानुप्रवेशश्रुतिर्यतः ॥ २८ ॥ बद्धमुक्तव्यवस्थाऽपि न स्वाभाविकभेदगा । उपाधिबाधाबाधाभ्यां साऽपि सम्यग्व्यवस्थिता ॥२९॥ येनैवोपाधिना यस्य परिच्छिन्नत्वमात्मनः । तदुपाधेर्लयात्तस्य मुक्तित्वे नास्त्यसम्भवः ॥ ३० ॥ एकजीवमते सर्वोपाधिनाशाद्विमुक्तिता । इदानीं मुक्त्यभावस्य नानिष्टत्वं मते मम ॥ ३१ ॥ मिथ्याभूतस्य चोपाधेर्मिथ्याभेदैकहेतुता । धन्धमोक्षयोः सामानाधिकरण्यमित्याह“अविद्यात्मकेति' ॥२७॥ शुद्धस्यानुसन्धातृत्वमिष्टमित्याह-“ अनुसन्धातृतेति ” ॥२८॥ बद्धमुक्तव्यवस्थाप्यनवयैवेत्याह -* बद्धांत ' त्रिभिः ॥२९॥ ॥ ३० ॥ ३१ ॥ ननूपाधेः कथं भेदकत्वं तथा हि उपाधिः कि मेकदेशेन संबद्धयते कृत्स्रोन वा आद्ये त्वन्मते खाभाविकांशाभावे नैौपाधिकत्वं वाच्यं तथाचानवस्था अन्ये त्वभेदकता कृत्स्रस्यैको पाधिग्रस्तत्वात् गगनादावपि स्वाभाविकांशाभावे धटाद्युपाधिस म्बन्धो न स्यातू तदुक्तं 'भवेदुपाधिसम्बन्ध एकदेशेऽथ सर्वेगः । ए कदेशेऽनघथा स्यात्सर्वगश्चन्न भेदक ' स्याशङ्गा सर्वविकल्पास हत्वेन मिथ्याभूतस्यैवोपाधेर्मिथ्याभेदप्रयेजकत्वस्य प्रागेवोपपादि