पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ सध्याख्याद्वैतस्सिद्धिस्लिद्धान्तसारै ! [२ परिच्छेदै अर्थान्तरादसिद्धेश्वांशस्योपाधित्वसम्भवात् ॥ २१ ॥ दुःखाद्यननुसन्धानमुपाधेर्न स्वरूपतः । सुप्तौ लयेऽप्युपाधेन भेदः संस्कारतः स्थितेः ॥२२॥ सुप्तप्रलीनमुक्तानामध्यासविरहाद्भवेत् । जीवानां मिथो भेदाऽनुमानमौपाधिकभेदमादाय सिद्ध साश्व नादिदूषणग्रस्तत्वान्न साध्वित्याह-* नेति ? । चैत्रो मैत्र प्रतियोगिकधर्मिज्ञानाबाध्यभेदवान् मैत्रप्रतियोगिकताधिकाभेद स्मर्तृत्वात मैत्रानुभूतसर्वाननुभवितृत्वाच्च धटवदित्यत्र प्रथमसाध्ये धर्मिपदविकल्पेन द्वितीयसाध्ये तात्विकाभेदस्यातात्विकभेदेन च सिद्धसाधनातू उपहितस्य पक्षत्वे अथन्तरात चैतन्यमात्रपक्षत्वे हेत्वसिद्धे: साधनैकदेशस्याननुसधातृत्वादेरुपाश्रित्वसम्भवाचेत्यर्थः । ॥ जीवभेदानुमानभङ्गः ॥ ननु यद्यात्मैक्यं स्यात्तदा चैत्रेण सर्वदुःखाद्यनुसन्धानं स्यादिति चेदौपाधिकभेदेनाननुसन्धानोपपत्तेमैवमित्याह --“दुःखादीति' । नन्वन्तःकरणस्य प्रत्यहं सुषुप्तौ विलयेनं पूर्वदिनानुभूतस्याननुस न्धानापत्तिरित्यत आह-“ सुप्तावेितेि ' । सुप्तौ संस्काराः त्मनाऽवस्थितस्यैव पुनरुद्वोधेन तत्रान्तःकरणभेदाभावादित्यर्थः ॥२२॥ नन्वेवं सुप्तप्रलीनभुक्तानामननुसन्धानप्रयोजकान्तःकरणभेदाभावा त्संसारिदुःखानुसन्धानापत्तिरित्यत आह -* सुतेति ?” । तेषामनुसन्धानप्रयोजकान्त:करणैक्याध्यासरूपसामश्रीविरहातू ना नुसन्भ्रातृत्वं, न हि प्रतिबन्धकमात्रेण कार्यविरहः किन्तु सामग्री विरहेणापि न चैवं मुक्तस्य स्वरूपसुखानुभवोऽपि न स्यादिति वाच्यं