पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवब्रह्मभेदानुमानभङ्गः । अप्रमेयेऽनुमानस्य प्रवृतिर्न कथञ्चन । प्रमेयस्य त्वनात्मत्वात्तत्र भेदानुमेष्यते ॥ १७ ॥ शुद्धे शब्दैकगम्ये नानुमानप्रसरोऽञ्जसा । तात्विकत्वभ्रमध्वस्त्यै भेदे तस्य फलित्वतः ॥ १८ ॥ अप्रसिद्धविशेषत्वादन्यथैवोपपत्तितः । सर्वशक्त्यल्पशक्त्यांदेर्न भेदे तन्त्रता ततः ॥ १९ ॥ जीवेश्वरभिदा सत्या खण्डिताऽस्माभिरादरात् । गीताभावप्रकाशेऽतो यत्यते नेह विस्तरे ॥ २० ॥ न जीवानां मिथो भेदे ऽनुमानं सिद्धसाधनात् । शुद्धचैतन्ये धर्मानाधिकरणतया अनुमानाप्रसर: यत्र प्रसरस्तत्रेष्टा पतिरित्यत्र वृद्धसम्मतिमाह-* अप्रमेयइति । नन्वेवमैक्या नुमानमपि कथं भवेतू यद्यत्य तदैक्यानुमिनिः कथमिति पठितुं शा षयत्वादित्यत आह-* शुद्धइति ?' । शुद्धचैतन्यैक्यस्य शब्दै घकगम्यत्वेन. तदाननुमेयत्वस्येष्टत्वात् न च तर्हि ऐक्यानुमानो पन्यासानर्थक्यं तस्य. भेदे तात्विकन्वभ्रममात्रनिरासफलकत्वादिति तात्पर्यार्थः ॥ १८ ॥ फलितमाह-* अप्रसिद्धेति ? ॥ १९ ॥ विस्तरेण जीवेश्वरभेदनिराकरण तु गीतासु त्रयोदशाध्यायस्थद्वि तीये श्लोके भावप्रकाशे द्रष्टव्यमिति नेह यत्यत इत्याह

  • जीवेश्वरभिदेति ? ॥ २० ॥

॥ जीवब्रह्मभेदानुमानभङ्गः ॥