पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२परिच्छेदे स्वरूपासिद्धितः साध्यवैकल्यात्सिद्धसाधनात ॥१३॥ अप्रसिद्यविशेषत्वादसाधारण्यदूषणात् । अन्यथैवोपपत्त्या च सर्वस्मिन्सिडसाधनात ॥ १४ ॥ अभ्रान्तत्वादयो धर्मा न तयेोभेदसाधकाः । ज्ञानाज्ञानप्रयुक्तास्ते न स्वरूपनिबन्धनाः ॥ १५ ॥ शुद्धयेोस्तत्वमोनैव धर्मित्वमवकल्पते । निर्विशेषतया तत्र भेदगन्धोऽपि दुर्लभः ॥ १६ ॥ १७२ दिनं प्रत्यसिद्धेः कल्पितव्यक्तिनिष्ठत्वेन सिद्धसाधनाश्च ईश्वरो जी धप्रतियोगिकतात्विकभेद्वान् सर्वशक्तित्वातू सर्वज्ञत्वातू सत्रैका र्यकर्तृत्वात्स्वतन्त्रत्वाद्वा व्यतिरेकेण जीववत् जीवो वा ब्रह्मप्राति योगिकतात्विकभेदवान् अल्पशक्तित्वादल्पज्ञत्वादल्पकर्तृत्वात्सं सारित्वाद्वा व्यतिरेकेण ब्रह्मवदित्यादिषु भेदस्य च खरूपत्वेन त द्वत्वस्साधने बाधान्न च विशेषमादाय तदुपपादनं तस्य स्वरूपान तिरेकेण तद्वत्वासम्पादकत्वातू अप्रसिद्धविशेषणतापत्तश्च तात्वि कभेदव्यतिरेकेऽपि उपाधिकल्पितभेदेन सर्वानिष्टपरिहारसम्भवा दिति द्वयोस्तात्पर्यार्थः ॥ १३ ॥ १४ ॥ एतेनाभ्रान्तत्वादसंसारित्वा तदु:खाननुभवितृत्वादित्यादिहेतुकानुमानान्यपि निरस्तानीत्याह

  • अत्रान्तत्वाद्य ज्ञात ' ॥ १५ ॥

उपहितस्य पक्षत्वे धर्मिसमसत्ताकत्वेऽपि तात्विकत्वासिद्धेः सिद्धसंाधनातू शोधिततत्वम्पदार्थपक्षत्वे तयोर्द्धर्भित्वाभावेन बा धापत्तेरतोनानुमानेन भेदसिद्धिरित्याह-“शुद्वयोरिति' ॥१६॥