पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदपञ्चके प्रत्यक्षस्याप्रमाणत्वोपपत्तिः । १७१ अनवच्छिन्नचिद्धातोरभेदः श्रुतिसम्मतः ॥ सौषुप्तिकानुभूतिस्त्वज्ञानावच्छिन्नभेदगा । न शुद्वेऽथ न जीवानां मिथेो भेदे प्रमाऽक्षजा ॥१२॥ नानुमानाद्भिदासिद्धि स्तयोर्निर्मकत्वतः । त्वमित्यर्थः । * द्वासुपर्णेत्यादिश्रुतिरप्यवच्छिन्नभेदानुवादिनी त्याह-“ भेदेति ? ' | भेदनिषेधश्रुतिस्तु अनुमानादिप्रसक्तभे दनिषेधपरोति भावः ॥ ११ ॥ ननु योऽहमस्वाप्सं यस्य ममाज्ञानसंसारादि सोऽहं निर्दू:खो नेति सुषुप्तिकालीनान्तः करणानवच्छिन्नाभेदेनाज्ञानाद्याश्रयाभेदेन च प्रत्यभिज्ञायमाने शुद्धे मदप्रतीतिरित्याशङ्कयाह-* सॉष्वृतेति । एतावता5प्यज्ञानाः घच्छिन्न एव भेदग्रहो न तु शुद्धे न हि सुषुप्तौ अन्तःकरणानव च्छिन्नत्वचदशानानवच्छिन्नत्वमप्यस्तीत्यर्थः । चैत्रमैत्रादिजीवानाम प्रत्यक्षतया तत्र भदग्रहोन्त:करणाद्यत्रच्छिन्नमेवाबगाहते न तु शु नाप्यनुमानै जीवेश्वरौ भिन्नौ विरुद्धश्रमधिकरणत्वात् दहनः तुहिनवदित्येवं रूपं भेदे प्रमाणमित्याह -* नेति ? ! दुःखा देरन्तःकरणादिधर्मत्वेन खरूपासिद्धेः एकत्रैव निर्दू:खत्वदुःखवत्व साधनातू तात्विकभेदसाधने साध्यवैकल्यातू ब्रह्मा तत्वतो जीबा द्भिन्ने सर्वज्ञत्वातू व्यतिरेकेण जीववदित्यत्राप्रसिद्धविशेषणत्वात् आत्मत्वं नानाव्यक्तिनिष्ठ जातित्वात पृथिवीस्वधदित्यआस्मैक्यवा