पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० सब्याण्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे न समानविशेषादिरूपभेदः प्रमाणयुक् । अभेदो विजयी तस्माद्वेदान्तैकप्रमाणभाक् ॥ ८ ॥ एवं प्रत्यक्षतः प्राप्तभेदस्यैव निवारणात् । असाक्षात्कृतजीवेशभेदादौ का कथा तव ॥ ९ ॥ अप्रत्यक्षतयेशस्य तद्धर्मिप्रतियोगिकः । भेदोऽशक्यो ग्रहीतुं सोऽन्यथासिद्यस्तु तद्ग्रहः ॥१०॥ भेदानुवादिनी श्रौती गौरवच्छिन्नमात्रगा । स्वरूपभेदान्योन्याभावभेदादरप्रमाणकत्वान्न भेदगन्धोऽपि प्रमाणपथमवतरतीत्याह-* नांतेि ? ॥ ८ ॥ जीवेशभेदनिराकरणं कैभुत्येन प्रतिजानीते–“एवमितेि' ॥९॥“अप्रत्यक्षतयेति' । ईश्वरस्याप्रत्यक्षत्वेन तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भे वस्य प्रहीतुमशक्यत्वादित्यर्थः ॥ १० ॥ ननु तद्धर्मिकभेदस्य जीवाप्रत्यक्षत्वेऽपि स्वधर्मिकभेदस्तथाऽपि तत्प्रत्यक्षो नाईं सर्वशो नाहं निर्दू:ख इत्यनुभवातू न च योग्यप्रतियोगिकत्वमभावे योग्य त्वप्रयोजकमिति वाच्यं स्तम्भः पिशाचो नेत्यादिप्रत्थक्षरूपफलव लेन संसगभावे तथात्वेपि अन्योन्याभावे आधिकरणयोग्यताया व तन्त्रत्वात् 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप । उत्तम: पुरुषस्त्वन्य ' इत्यादिवचनानुमितप्रत्यक्षसिद्धत्वमेवेति चेन्नेत्याह--

  • अन्यथासिद्धस्तु तद्ग्रह इति ? । उक्तानुभवस्यान्तः

करणाद्यवच्छिन्नचैतन्यस्य , तदनवच्छिन्नचैतन्यप्रतियोगिकभेदाव गाद्दितया. शुद्धचैतन्यधर्मिकनिदुःखादिप्रतियोगिकभेदानवगाहि