पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाभावादसन्देहान्नरूपं वस्तुनो भिदा ॥ ४ ॥ कल्पितो धर्मभेदोऽस्ति ज्ञानानन्दादिगोचरे । तदैक्यं श्रुतिसंसिडं भेदभ्रान्तिनिवर्तकं ॥ ५ ॥ प्रतियोग्यादिसापेक्षं भेदज्ञानं न तात्विके । ऐक्यज्ञाने प्रमाणोत्थे वस्तुतः प्रतिबन्धकं ॥ ६ ॥ अस्वव्याघातकैरेवं जतिभित्रैः सदुत्तरैः । निरस्तं भेदमादाय स्वात्माभेदो निषीदति ॥ ७ ॥ रिशेषापति: स्यादिति भावः ॥ ४ । नन्वैक्यस्य ज्ञानस्यानन्दस्य च फ्राह्मस्वरूपत्वे एकतरपरिशेषापत्तिस्तवापि समाना न च वस्तुन एकत्वेनेष्टापत्तिः प्रकृतेऽपि साम्यादिति तत्राह-“कल्पिते इतेि ' एकतरपरिशेषापत्या घट इति भेद इति विलक्षणव्यवहाराभावस्या पादनातू न च ज्ञानानन्दादावपि विलक्षणव्यवहारो न स्यादिति वाच्यं कल्पितधर्मभेदमादायोपपत्तेरित्यर्थः । अयं भावः भेदः स्य हि स्वरूपत्वे इदं भिन्नमस्य भेद् इति संम्बन्धित्वेन धीर्ने स्यात् नचानन्दो ब्रह्मण इति वदुपपत्ति: प्रमाणसिद्धेशैक्ये भेदव्यवहारः स्यौपचारिकत्वं कल्प्यते राहोः शिर इत्यादिवत् न च प्रकृते तथा 'वेक्ये मानाभावाद्वाधकाधेति ॥ ५ ॥ ननु त्वन्मतेऽपि विम्बब्रह्मजी घानां प्रतिविम्बब्रहाभेदे इदमनेन भिन्नमस्यामुष्मादभेद: इमे अ भिक्षे एतयोरभेद इत्येवं प्रतीतिः स्यातू तथा च धर्मप्रतियोगिभा धेधीर्द्धित्वावच्छिन्नश्रीञ्ध सेदज्ञानाधीनेति तद्विरुद्धाभेदज्ञानानुपप तिरित्याशङ्कयाह-* प्रतियोग्यादीति ? । काल्पनिकभेदशा नस्य ‘धर्मिप्रतियोगिभावद्वित्वावच्छिझाझाननिर्वाहकस्य तात्विकाभे दज्ञानप्रतिबन्धकत्वायोगादित्यर्थः ॥ ६ ॥ तस्मादात्मैक्यं विजयते तरमित्याह--* स्वव्याघातकैरिति ? ॥ ७ ॥ ॥ विशेषतो भेदूलण्डनम् ॥ २२