पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ पिरच्छेदे ऐक्यस्य निरपेक्षत्वे भेदभ्रान्तिनिवृत्तये । एकवाक्यत्वसद्भावात्स्वरूपपरसद्विरां ॥ २ ॥ अतः काल्पनिको भेदः सर्वत्र व्यावहारिके । वस्तुन्यात्मन्यभेदस्तु तात्विकः श्रुतिबोधितः ॥ ३ ॥ सापेक्षत्वात्सावधेश्च तत्वे द्वैतप्रसङ्गतः । नन्वैक्यस्य निरपेक्षत्वे तत्त्वम्पदार्थपराणां * सत्यं विज्ञानधन ' इत्यादीनामैक्यंपरमहावाक्यैकवाक्यत्वाभावेन वैयथ्यै स्यादित्या शङ्का निरस्यति–“ ऐक्यस्येति " । ऐक्यस्य स्वप्रकाशब्रह्मा भिन्नतया स्थितिप्रतीत्यादौ निरपेक्षत्वेऽपि यथालक्षितार्थभेदभ्रम निवक्र्तकवृतिजनने पदार्थसापेक्षतया स्वरूपपरवाक्यानामधकवा क्यताया: सत्त्वातू भेदरूपप्रतियोगिसापक्षत्वेन तत्र सापक्षत्वव्यध हारादित्यर्थः ॥ २ ॥ न चैतावता सापेक्षत्वापत्तिरैक्यस्येत्याह -- अत इति ? । काल्पनिकस्य सापेक्षत्वस्यापीष्टत्वात् । न च भे देऽपि एवमेवास्तु भेदस्य निषेधप्रतियोगितया श्रुतत्वेन ब्रह्मरूपत्वा भाधातू न च तत्राभेदश्रुतिरस्ति । एतेन स्वरूपेण निरपक्षस्याप्य भेदस्याभेदत्वेन सापेक्षत्ववत्स्वरूपेण निरपेक्षस्याऽपि घटस्य भेद त्वेन सापेक्षत्वमस्तु अवच्छेदकभेदेन सप्रतियोगित्वाप्रतियोगित्वे अपि तद्वदिति निरस्तं, भेदस्य स्वरूपतो निरपेक्षत्वे निप्प्रतियोगि कत्वे च परान्प्रतीव स्वमपि प्रत्यविशिष्टतया स्वव्याधात: नचैवम भेदस्यापि स्वान्प्रतीव परान्प्रति तथा सति तथात्चापतिरिष्टापते: घटत्वादिना भेदः परं कल्पितः खरूपतस्त्वभेद एव तथासति परं त्वं परं व्याहतं न स्वरूपत्वमपंत्यथः ॥ ३ ॥ यथैक्यं ब्रह्मणो रूपं न तथा भेदो वस्तुनो रूपमित्यत्राचार्यसं मतिमाह-* सापेक्षत्वादिति । धटस्य भेदत्वे एकतरप