पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदभ्रमाद्यधिष्ठानतत्त्वगोचरबोधतः । भ्रमे समूले विश्वस्ते नैव भेदः प्रमाँणभाक् ॥ ९४ ॥ अनिर्वाच्यतया भेदो बाध्यत्वेनैव सम्मतः । ऐक्यं ब्रह्मस्वरूपत्वाद्बाध्यं श्रुतिबोधितं ॥ ९५ ॥ व्यवहारव्यवस्थापि व्यावहारिकभेदतः । वा नञ्जयर्थो विषयो वाच्यः सर्वथा च भेदो दुष्परिहरः तद्नन्यत्वे तद्विरोधितद्भावत्वयॉरयोगातू भेदाभावग्राहिणाऽपि प्रतियोगि विलक्षणतयैवाभावस्य ग्रहणाच्च औौदासीन्येन प्रवृत्तस्येदमितिज्ञान वबाधकत्वाश्धति चेन्मैवमित्याह-* भेदद्भ्रमेiते ?' । अयम र्थः । पारमार्थिकत्वाकारेण भेदाभावविषयस्यैव बाधकत्वातू न च भेदस्य दुष्परिहरता व्यावहारिकभेदेनैव व्यावहारिकतद्विरोधि त्वतदभावश्वयोरुपपत्तिसम्भवातू यक्षानुरूपेोबलिरिति न्याया द्रेदभ्रमाधिष्ठानतत्वगोचरं ज्ञानं भ्रमबाधकमित्युपपत्रं उक्त रीत्या भेदवैलक्षण्येन तद्भहणोपपत्तेरिति ॥ ९४ ॥ भासमानो यो भेद: स स्वरूपादिपक्षान्तर्भावबहिर्भावाभ्यां वा अन्येन वा धर्मान्तरेणानिर्वाच्य इत्याह-“अनिर्वाच्यतयेति' । नच ती. भासेन अनिर्वाच्यत्वे ऐक्यस्यापि तत्प्रसङ्गः भेदबाधकस्यानाभास ताया उक्तत्वादित्याह-* ऐक्यमिति ** । ऐक्यभेदयोः श्रुत्य नुग्रहाननुग्रहाशुभ्थां विशेषाञ्चेति भावः ॥ ९५ ॥ तात्विकभेदाभावेऽपि कल्पितव्यावहारिकभेदेन व्यवस्थोपप तिरित्याह-* व्यवहारेति ? । नच कल्पितेनाकल्पितचार्य