पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ सव्याख्थाद्वैतसिद्धिसिद्धास्तसारे । [२ परिच्छेदे घटादीनां मिथो भेदो भेदो जीवेशयोर्मिथः । भ्रान्या प्रतीयंमानत्वान्मिथ्या रज्जुभुजङ्गवत् ॥ ९१ ॥ सत्तकैः श्रुतिभिः स्मृत्या भिदाया बाधितत्वतः । प्रतीत्येकशरीरस्य न भेदस्यास्ति वस्तुता ॥ ९२ ॥ भेदखण्डनयुक्तीनां तत्त्वतो भेदवारणात् । व्यावहारिकभेदस्यावारकत्वान्न दुष्टता ॥ ९३ । वात्तथा च जडानां जडचैतन्ययोर्मिथो भेदो जीवेशयोश्च भेदोऽप्रा भाणिकत्वान्मिथ्यैवास्ति रज्जुसपद्विदित्यभिप्रेत्याह--* वटा दीनामिति ' ॥ ९१ ॥ ॥ ब्रह्माण: शब्दाववाच्यत्वोपपत्ति: ॥ ननु भेदस्य प्रमाणसिद्धत्वादपलापो न युक्त इत्यत आह --

  • नेति ?' । न हि वयं भेदप्रतीतेः स्वरूपं वा कारणं

वा ऽपलपामः किन्तु बाधितविषयत्वं ब्रूमः व्याप्तिसधीचीनतया अशुष्कैस्तकैरनन्यपरया श्रुत्या स्मृत्या च भेदस्य बाधितत्त्वात वि षयभेदादिना प्रत्यक्षविरोधस्य परिश्नत्वेन श्रुत्यादावुपचरिता र्थत्वाभावादिति तात्पर्थार्थः ॥ ९२ ॥ नन्वभेदस्याप्येवं निरासः न चाभेदखण्डनयुक्तीनां स्वस्य स्वा भेदोपि न सिद्धयेदिति स्वव्याधातादाभासता भेदखण्डनयुक्तीना मपि भूषणयुक्ताभेदेन स्वव्याधातकतायाः समानल्वादिति चेन्ने त्याह-*'भेदेति । तथा च स्त्राव्याघातकतापपतिर्भदख तद्धनयुक्तीनामिति भावः ॥ ९३ ॥ ननु भेद्बाधकं न भेदविषयमेव