पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अखण्डत्वेऽपि वाक्यार्थभावो ब्रह्मणि सिद्धति ॥८३॥ अत्रान्विताभिधानेऽपि स्वरूपे लक्षणेष्यते । अन्वितस्य न चावाच्यभावस्य क्षतिरस्ति वा ॥८४॥ अवाच्याशब्दमस्पर्शमखण्डं श्रुतयो जगुः । स्वार्थे मानतया तासां न चान्याय्यप्रकल्पना ।। ८५ ।। लक्षणास्वीकृतेः शक्तिमात्रस्यैव निराकृतेः । निर्द्धर्मकतया वाच्यभावबाधादुपाधितः ॥ ८६ ।। पदलक्ष्यत्वेण्यपदार्थत्वोपपत्तिः अखण्डत्वेपि वाक्यार्थत्वस्योपपा दितत्वातू अन्विताभिधानेऽन्वितवाचकस्यापि स्वरूपे लक्षणाङ्गी कारान्न च तर्हवाच्यत्वासिद्धि: अखण्डम्रह्मसिद्ध्युपायत्वेन प्राप्त स्यावाच्यत्वादेर्निवारकाभावेनानुषङ्गिकतया सिद्धेः ‘यतो वाचो नि वर्तन्त' ' अशब्दमस्पर्शमित्यादिश्रुतयश्चात्रानुसन्धया: अवाच्यः शब्दवदशब्दशब्देऽपि व्याघाताभावात नचेयं श्रुतिरदुतत्वाभिप्राया श्रूयमाणार्थे बाधकाभावाद्न्याय्यकल्पना तत्रोवितेति त्रयाणां यो अजना १ ८३ ॥ ८४ ॥ ८५ ॥ ननु यतो वाचव इत्यत्रापि मनसा सहेति श्रुतमनोवृत्तरिश्वान्त:करणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सवैधा निषेधायोग इतेि चेन्मैवमित्याह-* लक्षणेति ?’ । ननु तात्प यैविषयो ब्रह्म वाच्यं वस्तुत्वालुश्यत्वाच्च तोरवदिति चेन्मैवं नि द्वैर्मकतया वाच्यत्वबाधातू तदुन्नीतसधर्मकत्वाद्युपाधिसम्भवाश्धे ति(१) भावः ॥ ८६ ॥ ( १ ) परमार्थसदादिकं, कस्थ विवाचकं प्रदत्वादित्यपि न, किभत्र पदत्व' ज ताव त्सृप्तिङन्तत्वं समासपदस्याश्क्तत्व न राजपुरुषादौ वभिचारात् नापि शक्तत्व' साधा. . विशिषात् अवयवद्वारा समासपदै वाचकत्व'चेदिष्टमेव, नापि सत्यादिमा वयं वाचार्येतात्प वच्छद्दक्षश' वाक्यत्वादित्यपि, विठं. भुङ वेत्यादौ वयभिचारा दिति ।