पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० सव्याख्थाद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे तथाऽऽत्मा स्वप्रकाशोऽयं स्वसत्तायां प्रकाशतः । व्यतिरेकविहीनत्वात्प्रकाशस्याश्रयत्वतः ॥ ७८ ॥ प्रकाशकर्तृभावाचेत्युक्त विवरणे स्फुटं । अत एव घटादौ नाप्रकाशेऽतिप्रसङ्गतः ॥ ७९ ॥ निर्द्धर्मकतया ब्रह्मावेद्यत्वेन निरञ्जनं । अनन्तादिगिरां लक्ष्यं न वाच्यं हेत्वभावतः ॥ ८० ॥ लक्ष्यत्वव्यवहारोऽपि वाच्यत्वाभावहेतुकः । तत्र विवरणोक्तानुमानं प्रमाणमाह-* तथेति ? द्वा अभ्यां । आत्मा स्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरकविधुरत्वात् प्रकाशाश्रयत्वात् प्रकाशकर्तृत्वात्प्रदीपधत स्वप्रकाश्यत्वस्य बाधि ततया तदप्रकाश्यत्वेन पक्षस्य विशेषिततया वाऽथर्थान्तराभावात् सजातीयप्रकाशाप्रकाश्यप्रकाशत्वमेव साध्यं एवं न घटादिवद् स्वप्रकाशत्वेनोपपत्ति: स्वाप्रकाश्यसजातीयाप्रकाश्यत्वेनावेद्यत्व स्य लाभातू विजातीयस्याप्रकाशत्वात् ज्ञानप्रभानुगतं च प्रकाश त्वमावरणाभिभावकत्वं एवं च न स्वविषयत्वरूपस्वप्रकाशत्वं कि न्त्ववेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वमिति सिद्धमिति भाव: ॥ ७८ ॥ ७९ ॥ ॥ आत्मन: स्वप्रकाशत्वोपपत्तिः ॥ निर्द्धर्मर्कतया अवेद्यतया च ब्रह्मानन्तादिपदलक्ष्यं न वाच्यं प्रवृत्तिनिमिताभावादित्याह-“ निर्डर्मकतयेति ? ॥८०॥ नन्ववाच्यशब्देनोच्यते चेत् वाच्यत्वसिद्धिर्लक्ष्यते चेत् अवा च्यत्वरूपमुख्यार्थस्याभावात्कथं लक्षणा भावे वा ब्रह्मा न अवा च्यं किन्तु तीरवत् अवाच्यत्वरूपमुख्यार्थसम्बन्धिमात्रमिति स्यातू मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि धटलक्ष्वकं स्यादित्या शङ्कावाच्यत्वरूपमुख्यार्थाभावेपि नञ्समभिव्याहृतवाच्यशब्देन