पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वप्रकाशत्वलक्षणोपपत्तिः । १५७ विद्न्यस्य समस्तस्य चैतन्यविषयत्वतः ॥ ६८ ॥ निःस्वरूपतया तुच्छे नातिव्याप्तिरसम्भवः । स्वस्मिन्वृत्तिविरोधेन स्ववेद्यत्वं न युज्यते ॥ ६९ ॥ यद्वा स्वव्यवहारे स्वातिरिक्तायाश्च सम्विदः । अनपेक्षत्वमेतद्दा स्वावच्छिन्नानपेक्षता ॥ ७० ॥ स्वप्रकाशत्वधर्मस्य स्वरूपत्वमिहेष्यते । नाद्वैतहानिबधो वा नेदमिष्टं च वादिनां ॥ ७१ ॥ स्वप्रकाशानुभूतिः स्यादनुभूतित्वहेतुना । छिदाया अच्छेद्यत्ववत्स्वस्य स्ववेद्यत्वायोगादित्यर्थः ॥ ६८ ॥ ६९ ॥ यद्धा स्वव्यवहारे स्वातिरिक्तसंचिदनपक्षत्वं स्वावच्छिन्नसंविदन पेक्षत्वं वा स्वप्रकाशत्वमित्याह-* यद्वेति ? ॥ ७० ॥ ननु स्वप्रकाशत्वधर्मस्य तात्विकत्वे अद्वैतव्याधात: अतात्विकत्वे अस्व प्रकाशत्वयैव तात्विकत्वापत्या तत्साधकानुमानादेर्वाध इति चेन्मै वमित्याह-* स्वप्रकाशत्वेति ?” । न च परेषामिदमिष्टं वे द्यत्वविरोधिस्वरूपस्य परैरनङ्गीकारादित्यर्थः ॥ ७१ ॥ ॥ स्वप्रकाशत्वलक्षणोपपत्तिः ॥ न च प्रमाणाभाव: अनुभूतित्वहेतोव्र्यतिरेकिण एव प्रमाण त्वात् । नन्वत्र साध्याप्रसिद्धिः न च वेद्यत्वं किञ्चिन्निष्ठास्यन्ता भावप्रतियोगि धर्मत्वादित्यनुमानेन सामान्यतः प्रसिद्धिरिति वा च्यम् । अवेद्यत्वप्रसिद्धावपि विशिष्टसाध्याप्रसिद्धेस्तदवस्यत्वात् नचवानुभूतित्वेनापि तावदेवसाध्यं बेद्यत्वस्य वृत्तिव्याप्यन्वरूपत्वे तु तद्भावस्य चरमवृत्तिव्याप्यानुभूतौ बाधात् फलव्याप्यत्वरूपत्वे