पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ १ परिच्छेदे स्वोपादानैकनिष्ठस्यात्यन्ताभावस्य सर्वथा । प्रतियोगी पटोऽयं स्यादंशित्वादतरांशिवत् ॥ १६ ॥ मिथ्यात्वसाधकाः सर्वे ये दृश्यत्वादिहेतवः । सोपाधिके न सन्त्येत उपाधेरनिरूपणात् ॥ ४७ ॥

  • स्वोपादान्नेति ?” । अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियो

गी अंशित्वादितरांशिवादिति तत्र तन्तुपदं उपादानपरं अत उक्त

  • स्वोपादानति । स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्व

लक्षणमिथ्यात्वसिद्धिरित्यर्थः ॥ ४६ ॥ ॥ आनन्दबोधब्रह्मसिद्धिकारचित्सुखानुमानोपपत्तिः ॥ ननु दृश्यत्वादिहेतवः सोपाधिकास्तथा । हि स्वबाधका भिमताबाध्यदोषप्रयुक्तभानत्वं स्वबाधकाबाधकं प्रति निषेध्य त्वन विषयत्वं वा विपक्षाद्यावृत्तं समव्यासभत एव व्यतिरे कव्याप्तिमदुपाधिरिति तत्राह-“ दृश्यत्वादिहेतव इतेि ? ।

  • उपाधेरनिरूपणादिति ?” । एतदुक्तभवति, ग्रह्मज्ञानमा

त्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वात पर्वतावय चवृत्त्यन्यत्वादिवत्साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेत रतुल्यत्वाञ्च बाधोष्ट्रीतत्वात् स्वबाधकाभिमताबाध्यदोषप्रयुक्त भानत्वं न मिथ्यात्वव्यापक दोषप्रयुक्तभानत्वं तु भवति व्यापकं तञ्च साधनव्यापकमपीति नोपाधि: दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनातू एवं द्वितीयोपाधावपि स्वबाधकाबाध्यबाधकं प्रतीति विशेषणं व्यतिरेकसाधने व्यर्थ विशेष्यभागस्तु साध्यसाधनयो व्यापक इति नोपाधिनपि श्रुतितात्पर्याविषयत्वमुपाधिः श्रुतिता पर्यविषयत्वस्य ब्रह्ममात्रनिष्ठतया तदभावस्य साधनव्यापक त्वादिति ॥ ४७ ॥ ॥ मिथ्यात्वानुमाने सोपाधिकत्वभङ्गः ॥