पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घ्रह्मसिद्धिकारानन्दबोधोक्तानुमाननिरूपणम् ।। १५ अतोऽन्यदार्तमित्याह ब्रह्मभिन्नं विनश्यति ॥ ४३ ॥ घटाद्याः स्वानुगस्फूर्तिवस्तुन्यारोपिता इमे । विभक्तत्वाद्यथा सर्पमालाद्या रज्ज्विदंलवे ॥ ४४ ॥ अस्ति प्रतीयमानत्वं स्वाभाववति वस्तुनि । कल्पितत्वं निव-त्र्यत्वं स्वरूपज्ञानतोऽथवा ॥ ४५ ॥ गतश्च नित्य'इत्यत्र चात्मनिदर्शनत्व स्वसमानकालीनसर्वगतत्वेन आभूतसंप्वावस्थायित्वेन चेति द्रष्टव्यं । ‘अतो(१)ऽन्यदार्तमिति'श्रुत्या ऽनात्ममात्रस्यैव विनाशित्वप्रतिपादनादिति भावः ॥ ४३ ॥ ॥ परिच्छिन्नात्वहेतूपपत्तिः ॥ अत एव घटादय: स्वानुगतप्रतिभासे वस्तुनि कल्पिताः विभक्त त्वातू यथा सर्पमालादिकं स्वानुगतप्रतिभासे रज्ज्वा इदमंशे विभ ज्यते एवं ब्रह्मण्यनुगच्छतेि घटादिकं विभज्यते सन्घटः सन्पट इत्यान न्दबोधात्क्तमपि साधु इत्यभिप्रेत्याह -“घटाद्या इति'। रज्ज्विंदं लवे-रज्ज्वा इदमंश इत्यर्थः । विभक्तशब्देन खसमानसत्ताकभेदप्र तियोगित्वरूपबस्तुपरिच्छेदस्य विवक्षितत्वात् न ब्रह्मतुच्छयोव्र्यं भिचार इति भावः ॥ ४४ ॥ अत एव घटादिकं सद्रपकल्पितं प्रत्येक तदनुविद्धत्वेन प्रतीयमानत्वात् प्रत्येकं चन्द्रानुविद्धजलतरङ्गश्चन्द्र वदिति ब्रह्मसिद्धिकारोक्तमपि साधु इत्यभिप्रेत्याह -“अस्तीति'। ननु सदर्थस्य ब्राह्मणो रूपादिहीनस्याऽऽसंसारमज्ञानावृतस्य शब्दैक गश्यस्य कथं धट: सन्नित्यादिबुद्धिविषयता तथात्वे वा कथं सहे तुदृश्यानिवृत्तिरित्याशाङ्क स्वरूपेणाप्रत्यक्षस्य राहोश्चन्द्रावच्छेदे नेव ब्रह्मणोपि घटाद्यवच्छेदेनैव प्रत्यक्षता, स्वरूपज्ञानस्यैव सहेतु दृश्यनिवर्तकत्वं न घटाद्यवच्छिन्नज्ञानस्येत्यभिप्रेत्याह-* निव त्र्यत्वमिति ? ॥ ४५ ॥ मिथ्यात्वे चित्सुखानुमानमपि दर्शयति ( १ ) इहदारणाकै ३ । ४ । २