पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे परिच्छिन्नत्वमप्यस्ति हेतुर्मिथ्या-त्वसाधने । दिकालवस्तुविच्छेदशून्यत्वादात्मगं न तत् ॥ ४१ ॥ स्वान्यूनसमसत्ताकाभावैकप्रतियोगिता । अस्यज्ञानावियन्मुख्ये नातोसिद्धिरिहेष्यते ॥ ४२ ॥ तस्माद्वेति श्रुतिः प्राह जन्यत्वं वियदादिषु। परिच्छिन्नत्वमपि मिथ्यात्वे हेतुरित्याह-- * परिच्छि न्न-लवमिति ?” । तद्देशतो वस्तुतः कालतश्चेति त्रिविधै, तत्र देशत: परिच्छिन्नत्वामत्यन्ताभावप्रतियोगित्वं कालत: प रिच्छिन्नत्वं ध्वंसप्रतियोगित्वं वस्तुत : परिच्छिन्नत्वमन्योन्यांभा धप्रतियोगित्वं । ननु समवायसम्बन्धेनात्यन्नाभावप्रतियागिन्बमा भावप्रतियोगित्वमपि तत्र व्यभिचारि तस्य जडनिgान्योन्याभाव प्रतियोगित्वादन्यथा जडत्वापत्तेरित्याशङ्कयाह-“दिकालेत्यादि ना'। अत्यन्ताभावेऽन्योन्याभावे च धर्भिप्रतियोगेिसमसत्ताकत्ववि शेषणेनात्मनि व्यभिचारपरिहारादिति भावः ॥ ४१ ॥ अज्ञानाका शादी च स्वसमानसत्ताकात्यन्ताभाधान्योन्याभावप्रतियोगित्वस् त्वेनासिद्धयभ वातू आवेि चाकाशादश्यवहारिकप्य पारमार्थिकाभा वपक्षे स्वान्यूनसत्ताकेति विशेषणदाने नासिद्धिरित्याह-“स्वा न्यूनेति ॥ ननु ध्वंसप्रतियोगित्वमाकाशादावसिद्ध | ॥ ४२ तेषां परैर्नित्यत्वाभ्युपगमादित्यत आहः -* तस्माद्वा इति ?” । ‘तस्माद्वा(१)एतस्मादात्मनआकाशः सम्भूतइति ' श्रुनिसिद्धजन्यत्वे नानुमितत्वान्नाकाशादौ ध्वंसप्रतियोगित्वमसिद्धं ‘आकाशवत्सर्व ( १ ) तैत्तिरीयोपनिषदि ब्र श्रावखरुद्यां १. श्रजुता ।