पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृश्यत्वजडत्वहेतुपपत्तिः । अवेद्य-त्वेऽपरोक्षेकयोग्यताभावरूपि तत् । दृश्यत्वं तत्र नासिद्धिहेतुवैकल्यमेव वा ॥ ३७ ॥ जडत्वमपि हेतुः स्याज्जगन्मिथ्यात्वसाधकं अज्ञानत्व जडत्व स्यादनात्मत्वमथास्तु वा ।। ३८ ॥ अर्थोपलक्षितं भानं ज्ञानत्वेनोच्यते श्रुतौ । तन्न व्यभिचरेन्मोक्षदशायामपि चिद्धने ॥ ३९ ॥ एवमानन्दाभिन्न-त्वमनात्मत्वं भवेन्नयात् । ब्रह्मत्वं विषयोत्थेऽपि सुखे ज्ञानात्मनि स्वतः ॥ ४० ॥ एवं चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपं दृश्यत्वमपि हेतुरित्याह-* अवेद्य-त्वे इतेि । ' ' ननु फलव्याप्यत्वाभाववि. । शिष्टं यदपरोक्षव्यवहारयोग्यत्वं तस्य ब्रह्मणीचाविद्यान्त:करणादौ शुक्तिरूप्यादौ च सत्वेनास्सिद्धिसाधनवैकल्ये स्यातामित्याशङ्कयाह-- “न चेति(१)।' ' अज्ञाननिवर्त्तकवृत्तिविषयत्वयोग्यत्वस्यापरो क्षव्यवहारयोग्यत्वपदेन विवक्षितत्वात्तस्य चाविद्यादौ शुक्तिरुप्यादौ चासत्त्वान्नासिद्धिसाधनवैकल्ये इति दृश्यत्वहतूपपत्तिरित्यर्थः ॥३७॥ ॥ इश्यत्वहेतूपपत्तिः ॥ जडत्वमपि मिथ्यात्वे हेतुरित्याह -* जडत्वमिति ?' । अर्थोप लक्षितप्रकाशस्यैव ज्ञानत्वेन. मोक्षदशायामपि तदनपायादज्ञानत्वं जडत्वमिति पक्षे ' नात्मनि व्यभिचार: ज्ञानस्य सज्ञेयत्वै सज्ञातृत्व न खाभाविकं किन्त्वौपाधिकं उपाधिविलये तथात्वस्य सत्वादिति तात्पर्यार्थ: ॥ ३८ ॥ ३९ ॥ अनात्मत्वं जडत्वमिति पक्षेप्याह ‘एवमिति'। वैषयिकानन्दस्यापि ब्रह्मरूपत्वात्तदुपाधिमात्रस्यैवों त्पतिविनाशप्रतियोगित्वात्तथा चानन्दभिन्नत्वमनात्मत्वमिति सुष्ठ त्क्तमिति भावः ॥ ॥ जडत्वहेतूपपत्तिः । ४० ( १ ) गचेति प्रतीक मूलासम्बद्द' दृश्यते तत्स्थाने नासिछिरित्येव युक्तमिति धधम्। {