पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥ ४८ ॥ स्वस्मिन्कार्यजनेरेव हेतुत्वं लक्षणं ध्रुवं । उपादानस्य तचास्ति विवर्तपरिणामयोः ॥ ४९ ।। । ब्रह्ममाये जगद्योनी नोभयोः परिणामिता । - दाहरति---* अस्येति ? ' ॥ ४८ ॥ उपादानलक्षणमाह--* स्व स्मिन्निति ? । आत्मनेि कार्यजनिहेतुत्वस्यैवोपादानत्वलक्षण त्वात तस्य च परिणाम्यपरिणाम्युभयसाधारणत्वादिस्यर्थ: ॥ ४९ ॥ ननु ब्रद्वैवोपादानमुताज्ञानमपि आद्ये सत्योपादानत्वे सत्यत्वापत्या अज्ञानोपादानकत्वकल्पनविरोधः द्वितीये सूत्रद्वयस्य रज्जु प्रर्तीव ब्रह्माझानयोः समप्राधान्येन वाऽन्यथा वा कारणात्वं विवक्षितमि त्याशाङ्काह-* ब्रह्मात ' । उभयापरिणामित्वेन तयोः कार तया कारणतानङ्गीकारात किन्त्वज्ञानस्यैव न ह्यविद्यासाहित्येऽपि ब्रह्म परिणमते किन्तु विवर्त्तते न चाविद्यापरिणामत्वेऽपि सत्य त्वापति: परिणाम्युपादानसमसत्ताकत्वरूपस्य सत्यत्वस्य परिणा मनिर्वाहकत्वातू ग्रहसमसत्ताकत्वाभावेन तदपेक्षया परिणाम त्वाभावात्खसमानसत्ताकविकाराहेतुतया निर्विकारत्वोपपत्तश्च न च सस्योपादानत्वे सत्यत्वापत्ति: परिणाम्युपादानधर्माणामेव मृत्वसुवर्णत्वादीनां कार्ये अन्वयदर्शनातू सत्योपादानत्वेऽप्यस ।