पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिश्छेदे प्रवेष्टत्वे च गम्यत्वेऽत्यथासिद्धे न विग्रहः । कल्प्योऽथ क्रममुक्त्यै वा तज्ज्ञानं वोपलक्षितं ॥३६॥ चिदानन्दस्वरूपस्य निराकारस्य वस्तुतः । विग्रहो मायया भाति नान्यथा तक्यैतां वृथा ॥३७॥ नारायणादिशब्देन मायोपहितमुच्यते । ननु 'तदे(१)वानुप्रविश'छरह्म(२)विदामोति पर'मित्यादि श्रुति सिद्धं सर्वगतब्रह्मणः प्रवेष्टत्वं गम्यत्वं च विग्रहं विना न युज्यत इति शङ्कां निरस्यति-“ प्रवेष्टत्वमिति ' । स्वसृष्टकार्याभिव्यक्त त्वस्यैवानुप्रवेशशब्दार्थतया व्यापकस्य मुख्यप्रवेशासम्भवातू प्राप्तस्याप्यविद्यातिरोधाननिवृत्यपेक्षया प्राप्यत्वोपचारेण विग्रहाना क्षेपकत्वात् यत्तु ‘तमेवं विद्धानामृत इह भवति’ ‘यदा पश्य'इत्या दिश्रुतौ सर्वनास्रा सविग्रहस्यैव परामशत्तज्ज्ञानस्यैव मोचकत्वे सविग्रहत्वमिति तन्नेत्याह-* अथेति ? । सगुणविद्यायाः क्रः ममुक्तयर्थत्वेनान्यथासिद्धेः साक्षान्मुक्तिजनकत्वपक्षे तदुपलक्षिता त्मज्ञानस्यैव मोचकत्वामित्यर्थः ॥ ३६ ॥ ‘अपाणिपादो' 'नेति नेतीति श्रुतिविरोधान्मायिकत्वमेच सविग्रहत्वस्य न तात्विकत्वमित्याह

  • विदानन्देति ? ॥ ३७ ॥ नन्वे'को नानारायण आसीन्न ब्र

हा न च शङ्कर' इति श्रुत्या महाप्रलये नारायणस्थित्युक्त्या नित्य विग्रहसिद्धिरित्याशङ्का निराचष्ट–“नारायणेति' । नारायणश ब्दस्य ' सदेव सोम्येदमग्र आसीदिति' श्रुत्यनुसारेण मायोपहित ब्रह्मपरत्वेन विग्रहपरत्वाभावातू न चैतावता चेतनान्तरस्साधारण्यं ( १ ) तै० उ० २ । । ( २ ) तै० उ• ३ । १