पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे विचारसमयेऽध्यस्तधर्मसम्भवतोऽञ्जसा । विचारविषयत्वं स्यावितो विविदिषा फलं ।। २५ ।। निर्विशेषं परं ब्रह्म सिद्धं श्रत्यादिमानतः । सगुणत्वमितोऽध्यस्तं मायया तत्र केवलं ॥ २६ ॥ वेदान्ता निर्विशेषे स्युः प्रमाणं नान्यसम्भवः । त्वानुपपत्ति: ‘इदमित्थमितेि ज्ञानं जिज्ञास्साया: प्रयोजनं । इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिते'त्याशङ्का विचारकाले आरोपित धर्मसम्भवातू विचारोत्तरकाले च इत्थमिनि व्यवहारस्य स्वरूप व्याधृत्यादेः कल्पितपार्थक्यमादायोपपत्तिरिति मैवमित्याह

  • विचारसमय ?' इति । ननु धर्मारोपार्थमेव के वन धर्माः

सत्या: स्वीकर्त्तव्या इदन्त्वादिना ज्ञात एव रूदयाद्यारोपदर्शनात् तदुक्त “धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने । सर्वधर्मविही नस्य धर्मारोपः कि दृश्यत' इति चेन्नेत्याह---“अंजसेति' । इदं त्वादेरपि सत्यत्वासंप्रतिपत्तेः शुद्धेऽप्यध्यासस्योपपादितत्वाश्ध धर्मकल्पनाऽपीति भावः ॥ २५ ॥ निराकृतत्वाञ्ध निर्विशेषं परं ब्रहूंति सिद्धमित्याह--* निर्विशेष मिति ? ॥ २६ ॥ ॥ ब्रह्मणो निर्गुणत्वोपसंहार: ॥ ननु निर्विशेष किं प्रमाणमिति चेत् किं स्फूत्यैर्थ वा अज्ञाननिवृत्यर्थे वा प्रमाणप्रश् आद्ये स्वप्रकाशातया प्रमा इणवैयथ्यै द्वितीय उपनिषद् एव प्रमाणत्वादत एव प्रत्यक्षमनुमानं स्य (४