पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१ आरोपितगुणैरेव सिद्धान्ते सिद्धिसम्भवात् ॥ २२ ॥ दुःखधीवृत्तिरूपत्वादानन्दस्तु चिदात्मक ब्रह्मण्यध्यस्तविश्वस्य न सत्वं स्यात्ततः पृथक् ॥२३॥ निर्विशेषत्वरूपेण विशेषप्रतिषेधनम् । अद्वितीयतया द्वैतनिषेध इव सम्भवेत् ॥ २४ ॥ सम्बन्धिगुणोपादानेन सिद्धान्तसिद्ध्युपपत्तेः गुणतात्त्रिकत्वौदा सीन्यान्न सगुणत्वसिद्धिरित्यर्थः । तस्मान्निर्गुणवाक्यबाधात्सगुण वाक्यमतत्परमिति भावः ॥ २२ ॥ नन्वेवमानन्दस्य ज्ञानमात्रत्वे दुःखज्ञानमप्यानन्दः स्यात् भि न्नत्वेऽखण्डत्वहानि: एवमच ब्रह्मणो जगदभिन्नत्वे मिथ्यात्वापति: भिन्नत्वे भेदस्सत्यत्वमित्यादितर्कबाधात्वदभिमतं ब्रह्मापि न सि द्रयेदिति श्रुनिबाधात्तकर्ताणामाभासत्वं त्वन्मतेऽपि समानमित्या शङ्का दुःखशानस्य वृत्तिरूपतया आनन्दस्य नित्यचिन्मात्रानतिरेके गतोऽभावाद्रेदाभेदविकल्पस्यानवकाशात सगुणश्रुतेरतत्परतया श्रुतिबाधसाम्योत्केरयुक्तः निर्गुणश्रुतेस्तु तत्परतया तदनुगृहीत

  • द:खधीरिति ॥ २३ ॥ ननु निर्विशेषत्वस्य भावाभावा

भ्यां मूकोऽहमितिवत्स्वव्याधात: यदि निर्विशेषत्वरूपनिषेधोऽप्य नेनैव निषिध्यते तह्रयमपि वचनक्रिया मूकोहमित्यनेनैव निषिध्यत इति सममित्याशङ्का निरस्यतेि –“ निर्विशेषत्वेति ?” । नि विशेषत्वस्य विशेषरुपत्वे निर्विशेषत्वेनैव रुपेण तन्निषेधस्याद्विती यवाक्ये द्वितीयाभावरूपद्वितीयनिषेधस्येवोपपत्तेकोहमित्यत्र व क्तत्वतदभावयोरेकरूपेण निषेधाभावाध्याधातोपपत्तेनात्र तथात्व मिति तात्पर्यार्थः ॥ २४ । ननु ब्रह्मणो निर्विशेषत्वे विचारविषय