पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अनन्तत्वादिरद्वैतस्वरूपपर इष्यते । उपास्तिप्रकृतस्थोऽपि वस्तुमात्रपरत्वतः ॥ १३ ॥ वाग्धेनुत्वादिवन्नात्र सत्यकामादयो गुणाः । अध्यस्ता ईश्वरात्रैतेऽन्यत्र सन्ति श्रुतेर्मताः ॥ १४ ॥ नाम ब्रह्मत्यपासीत सैषा नामाभिमानिनी । स्मरेत्तस्यां हरिं ब्रह्मत्येवमारोपतत्परा ॥ १५ ॥ शाखेन्दुन्यायतो ब्रह्मोपदेष्टं स्यादुपास्तिगीः । स्वरूपएर * सत्यं ज्ञानमनत'मित्यादिवाक्ये अनन्तत्वादे: स्वरूप एव सत्वेन वस्तुतत्वमात्रपरत्वमेव युक्त कविदुद्रीथाद्युपास्तिप्र करणस्थस्यापि * स एवानन्त' इति वाक्यस्योभयपरत्वेऽपि निर्ग णश्रुतिविरोधेन सगुणवाक्यस्योभयपरत्वाभावात् अनन्तत्वादेस्ता त्विकत्वमेवेत्यभिप्रेस्याह -* अनन्तत्वादिरिति ? ॥ १३ ॥ नन्वेवं सावैश्यादीनां वाग्धेनुत्वादिवत्प्रातीतिकत्वापत्तिरिति ने त्याह--* वागिति *? । वाग्धेनुत्वादेर्बुद्धिपूर्वकारोपविषयतया प्रातीतिकत्वेऽपि सत्यकामत्वादेरीश्वरादन्यत्रासम्भवेन बुद्धिपूर्वका रोपविषयत्वाभावान्न तथात्वमित्यर्थः ॥ १४ ॥ नामब्रह्मोत्यत्रारोपेण मुख्यत्वसम्भवे गौणत्वस्यान्याय्यत्वमित्याह-* नामेतेि ? । एवं प्रतिमादावपि देवतात्वारोपेण मुख्यत्वे गौणत्वमन्याय्यमेवे ति द्रष्टव्यम् ॥ १५ ॥ अनात्मापास्तस्तु भूमाख्यब्रह्मोपदेष्टुमेव शाखाचन्द्रन्थायेनावधता रितत्वातू 'तदेव(१)ब्रह्मत्वं विद्धि नेदं यदिदमुपासते' इति गुणवि शिष्टस्योपास्यस्य ब्रह्मत्वनिषेधोऽपि सुसंपन्न इत्याहः -* शाखेति ?? (१) के नीपनिषद १ ।