पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७ व्यावहारिकसत्वं स्याद्धर्माणां न तु धर्मिणः । अधिष्ठानतया सत्वं पारमार्थिकमात्मनः ॥ १० ।। पृथगात्मानमित्यादिश्रुतियोंमामिति स्मृतिः । कैवल्यहेतुधीसिडै सगुणोपासनं जगौ ॥ ११ ॥ निर्गुणज्ञानतो मुक्ति तत्परत्वाज्जगौ श्रुतिः । सगुणागुणयोर्शने महद्वैषम्यमिष्यते ॥ १२ ॥ धणोऽपि सत्यत्वं तथाऽस्त्विति चेन्नेत्याह-* व्यावहारिकेतेि * । 'सत्यस्य सत्य'मिति निरतिशयसत्वप्रतिपाद्नविरोधादधिष्ठानत्वा नुपपत्तेश्च न ब्रह्मणो व्यावहारिकसत्यत्वोपपत्तिरित्यर्थः ॥ १० ॥ ननु * पृथगात्मानमित्यादिश्रुतिषु * यो मामशेषदोषेत्थगुणसर्वस्व घर्जितै। जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्ति न चाऽन्यथा '। भोक्ता(१)रं यज्ञतपसां सर्वलोकमहेश्वरं ! सुहृदं सर्वभूतानां ज्ञात्वा भी शान्ति मृच्छतीत्यादिरूमृतिषु च सविशेषज्ञानादेव मोक्षोक्तिः सप्रकारक ज्ञानस्यैव भोचवकत्वमित्याशङ्का निरस्यति -' पृथगेिति । प रममुक्तिहेतुनिर्गुणसाक्षात्कारोपयोगिसत्वशुद्धयुपायसगुणोपासन विध्यर्थवादतया साक्षान्मुक्तिहेतुत्वाप्रतिपादकत्वात् श्रुतिस्मृत्योः नैवं परत्वमित्यर्थः ॥ ११ ॥ न च निर्गुणशानान्मुक्तिश्रुतिराषि तथा तत्परत्वातत्परत्वायां वैषम्यादित्याह-“निर्गुण' इति । यद्यपि 'नास्याब्रह्मवित्कुले भवती'त्यादि फलान्तरश्रवणं निर्गुणज्ञानेऽपि स्तुत्यर्थतयोपपाद नमपि समानं, संयोगपृथत्कन्यायेनोभयफलत्वोक्तिरपि सभाना, त थाऽप्यधिष्ठानत्वावगाहित्वानवगाहित्वाक्यां निर्गुणासगुणज्ञानयोर्वि शेषात गुणज्ञानजन्यमुक्तरवान्तरर्मुक्तित्वाचेति तात्पर्यम् ॥ १२ ॥ ( १ ) भगवद्गीतायाम् .५ । २८. ।