पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे विशेष्यांशस्य सत्वेऽपि न सत्यत्वं विशेषणे । अतः सगुणवाक्यं नो गुणानां वस्तुतापरम् ॥ ७ ॥ । विमातालम्बनोपाधिविशिष्टस्यैव वस्तुनः । ध्येयत्वोक्तया न शुद्धे सा नेक्षतेःस्याद्विरोधिता ॥ ८ ॥ य आत्मा ध्वरंतपाप्मेत गुणाः सन्ति स्वरूपगाः । जिज्ञास्या न बहेिर्भूताः सत्यकामाद्यो गुणाः ॥ ९ ॥ सगुणवाक्यस्य विशेष्यांशसल्याविषयत्वेऽपि विशेषणांशासल्यावि षयत्वान्न गुणादितात्विकत्वपरत्वमित्याह-“विशेष्यांशस्येति ') ॥ ७ ॥ नन्वीक्षतिकर्मेति सूत्रे 'ईक्षतिध्यानयोरेकः कार्यकारणभू तयोः । अर्थ अात्सर्गिक तत्वविषयत्र्चतथेक्षतेरितिभामत्यां * परात्परं पुरि शयं पुरुषमीक्षते ' इतोक्षतिकर्मणः परब्रह्मण एव “ परं पुरुष मभिध्यायीतेति अभिध्यातव्यत्वेनोक्तया तद्विरोध इत्याह--* त्रि माखेति । त्रिमात्रकारालम्बनोपाधिविशिष्टस्यैव ध्येयत्वोत्तया शुद्धविषयत्वाभावेन विरोधाभावातू विशेष्यांशमादायक्षतिस मानकर्मत्वोपपत्तिरित्यर्थः ॥ ८ ॥ ननु * यआत्मा अपहतपाप्मे'त्यारभ्य ‘सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिशासितव्य ' इति सत्यकामत्वादीनामपहतपा प्मत्वादिभिः सह जिज्ञास्यत्वश्रवणाज्ज्ञेयत्वमित्याशङ्कापहतपाप्म स्वादीनां स्वरूपतया जिज्ञासाकाटिप्रवेशेऽपि सत्यकामत्वादीनां स्वरूपबहिर्भावेन जिज्ञास्यत्वायोगात्तच्छब्देन तेषामपरामशतू य श्चित्रगुलैम्बकर्णश्च तमानयेत्यादौ योग्याविशेषणस्येव तच्छब्देन प रामर्शदर्शनान्मैवमित्याह -“अपहृतेति' । अस्वरूपत्वे तेषाम प्पुराम विशेष्यांशमात्रपरामर्शः यश्चित्रगुहुधनस्तमानयेत्या दिवदिति भावः ॥ ९ ॥ धर्माणामपि व्यावहारिकसत्यत्वोक्तहा