पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मनो निर्गुणत्व उपपत्तिप्रदर्शनम् । निर्गुणस्तावदात्माऽस्ति कैवल्यश्रुतिसद्विरा । उपास्त्यै सत्यकामाद्या गुणास्तत्र समर्पिताः ॥ ७४ ॥ अन्यशेषतया तेषां तत्परत्वं न तच्छ्रुतेः । निर्गुणप्रकृतस्थाया अद्वितीयपरत्वतः ॥ ७५ ॥ तत्परत्वेन सत्वैक्योधिनोः श्रतिवाक्ययोः । प्राबल्यान्न निषेध्यत्वमसङ्गेदादिबोधिभिः ॥ ७६ ।। न ब्रह्मण्यनुमानं वा सद्धर्मादिप्रमापकम् । सिद्धसाधनदोषेण दूषितत्वान्निरर्थकम् ॥ ७७ ॥ १२७

कैवल्यश्रुत्या ताबदात्मा निर्गुण इत्याह -“ निर्गुण ?इति । ननु ‘बृहन्तोऽस्य धर्मा' इति श्रुत्या, ब्रह्म धर्मवत्तू पदार्थत्वादित्याद्यनु मानैश्च, स्वसमानसत्ताकधर्मवब्रह्मति चेत्रैवं न तावत् श्रुत्या सगु णत्वसिद्धिः सगणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्प कत्वेन तत्परत्वाभावात्, न चापूर्वत्वात् सत्यकामादौ विशेषणे तात्पर्य अपूर्वत्वेप्यन्यशेषस्य अतत्परत्वदर्शनातू, निर्गुणप्रकरण हयायास्तु अद्वितीयब्रह्मप्रतिपत्त्यनुकूलनिषेधापेक्षितविषयसमर्पकत या अन्यथासिद्धेरिति द्वयोरथैः ॥ ७४ ॥ ७५ ॥ असद्धाक्यभेदवा क्ययोस्तु न ब्रह्मासत्वैक्यनिषेधकता सत्वैक्यबोधकयोरेव तत्पर त्वेन प्राबल्यादिस्वाह -* तत्परत्वेनेति ? ॥ ७६ ॥ ब्रह्म ध र्भिसत्तासमानसत्ताकधर्मवत्पदार्थत्वाद्भाववद्वा धटवदित्याद्यनुमा नमपि न ब्रह्मणि तात्विकधर्मतासाधनायालमित्याह-“ नेति ? ’ धर्मिपदस्य यत्किचिद्धर्मिपरत्वे समसत्ताककल्पितधर्मत्वेन सिद्ध साधनं ब्रह्मपरत्वे साध्याप्रसिद्धिः . घटादिधर्मे ब्रासमानसस्ताक स्वादेरप्रसिद्धेरित्यादिदूषणग्रस्तत्वान्नानुमानं तत्र प्रमाणमित्यर्थः७७