पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे एवं तत्वमसीत्यस्य सत्यादिपदवाक्यत । प्रमेयैक्येऽपि भेदान्ध्यनाशकत्वेन मानता ॥ ६९ ॥ उ(१)पाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते । तदपि स्यादखण्डाथै महत्खं कुम्भखं यथा ॥ ७० ॥ तथा त-त्वमसीत्येवमखण्डार्थावबोधकम् । उपाधिभेदभिन्नेऽर्थेऽप्यैक्यस्य प्रतिपादनात ॥ ७१ ॥ सत्यज्ञानादिगीरेतत्संसर्गव्यतिरेकेिणी । अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत ॥ ७२ ।। मानं वेदान्तवाक्यानि निर्गणाखण्डसाधनात् । निर्गुणत्वं च तस्योक्तं श्रुत्या युक्तिसहायया ॥७३॥ एवं तत्वमसीति वाक्यस्य सत्यादिवाक्यास्तत्पदाच प्र मेयावैलक्षण्येऽपि धर्मिद्वयपरामर्शित्वेन भेदभ्रमनिवर्तधकत्वात् प्रामाण्यमित्याह-' एवामात ॥ ६९ ॥ कल्पतरुकृद्वचनं तत्रोदाहरति -“ उपाधीति ? ॥ ७० ॥ प्रकृते फलितमाह

  • तथेति ? ॥७१॥ चित्सुखाचार्योत्तयाऽपि तद्रढयति-“एव

मिति । सत्यादिचाक्यमेतत्पदार्थसंसर्गव्यतिरिक्त एवार्थे प्रमाण मिति सावधारणं साध्यै विवक्षितं तेन संसर्गातिरिक्तसंसर्गिण्यापि प्रामाण्याङ्गीकाराक्ष सिद्धसाधनमिति भावः ॥ ७२ ॥ फलितमुप संहरति-* मान ' मिति ॥ ७३ ॥ ॥ तत्धमसीत्यादिमहावाक्याखण्डार्थत्वोपपत्तिः । ( १ ) कचंतरौ १ । १ । १ ।