पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घाक्यस्य लाक्षणिकत्वेऽपि अनुभावकत्वप्रदर्शनम् । १२५ वाक्यं लाक्षणिकत्वेऽपि भवेदेवानुभावकम् । अज्ञातज्ञापकत्वाच्च वदान्ता अनुभावकाः ॥ ६५ ॥ एव च तत्त्वमस्यादिमहावाक्यानुमानकम् । निर्दोषं सोऽयमित्यादिदृष्टान्तोऽत्रानुकूलकृत् ॥ ६६ ॥ तत्र तद्देशकालादिविशेषणविवर्जनांत । विशेष्यमात्रमेकं हि बोध्यतेऽखण्डितार्थकम् ॥ ६७ ॥ प्रत्यभिज्ञा पदार्थाप्तभेद्भ्रमनिवर्तिका । नाभिज्ञा स्यात्पदार्थक्यविषयत्वेऽपि सा प्रमा ॥६८॥ . स्याननुभावकत्वादिति तत्राह-* वाक्यमिति ' । एवं च प दशक्तेः पदार्थोपस्थितौ एवेोपक्षयादुपस्थितानां च पदार्थानामन्व यानुभावकत्वात्सर्वपदलाक्षणिकत्वेऽपि न चेदान्तवाक्यानामन्वया नुभाधकत्वानुपपत्तिरिति भावः ॥ ६५ ॥ ॥ सत्याद्यवान्तरवाक्यारखण्डार्थतोपपति: ॥ एवं च तत्वमस्यादिमहावाक्यपक्षकानुमानमपि निदषमि त्याह -* एवं चेति ' । न च सोऽयं देवदत्त इत्ययं हृ ष्टान्तः साध्यविकलः विशिष्टाभेदस्य बोधयितुमशक्यत्वादिः यत्राह--*सोयमिति ? ॥ ६६ ॥ उभयविशेषणपरित्यागे वि शेष्यमात्रमभि बोध्यते इति सिद्धमखंण्डार्थत्वमित्याह

  • तत्रेति ?' द्वाऽयाँ । ततदन्तोपस्थितिद्वारकाभेदबोधस्यैव

भेदभ्रमविरोधितया नान्यतरपदवैयथ्यै प्रत्यभिज्ञाप्रत्यक्षस्याऽप्य भिज्ञाद्वयोपस्थितस्वरूपातिरिक्ताविषयत्वेऽप्युभयोपस्थितिद्वारकाभे दबोधनेन भेदभ्रमनिवर्त्तकत्वं तत्समानार्थे च वाक्यमतदिति न विशिष्टपरमित्यर्थः ॥ ६७ ॥ ६८ ॥