पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ सव्याख्याद्वैतसिद्धिंसिद्धान्तसारें । [२ परिच्छेदे उभीरन्नद्योरन्योन्यमन्वयज्ञानतः परः ॥ ६० ॥ विशिष्टाथैकसम्बन्धि तीरं वस्त्वेव लक्ष्यते । तथैव प्रकृतेऽन्योन्यविशिष्टार्थधियः परं ॥ ६१ ॥ तत्सम्बन्धि परं ब्रह्मखण्डं वस्त्वेव लक्ष्यते । एकस्मिन्ब्रह्मणि द्वारीभूताया अपि तदियः ॥ ६२ ॥ मिलित्वा जननाच्छब्दैर्लक्षणातोऽप्यखण्डधीः । तात्पर्यज्ञापकाभावात्प्रत्येकं न पृथक्पदे ॥ ६३ ॥ लक्षणा समुदाये स्यात्तस्माद्वाक्येऽपि लक्षणा । एवं पदार्थे तात्पर्यान्वयासिटिंकृता पदे ॥ ६४ ।। लक्षणा तद्द्वयासिद्धा वाक्यार्थे वाक्य इष्यते । तीरं लक्ष्यते तथा प्रकृति परस्परविशिष्टार्थबोधानन्तरं तत्सम्वन्ध्य खण्डं लक्ष्यते तथा च न वैयथ्यै न च तत्राऽपि प्रत्येक लक्षणा तथा सति गभीरतोरनदीतीरादिलाभेन विशिष्टतीरबुद्धिर्न स्यात् । न च तत्र गभीरनदीपदयोरिवह स्लत्यादिपदानां परस्परमन्वयबोध कत्वै त्वन्मते नास्तीति वाच्यम् । एकस्मिन्ब्रह्मणि द्वारीभूतस्य प रस्परार्थान्वयबोधस्य सस्यादिपदैर्मिलित्वा जनतातू उत्तरकालं ल क्षणयाऽऽखण्डबाश्रयस्याभ्युपगमादिति सार्द्धद्धयतात्पर्यार्थः ॥ ६० ॥ ॥ ६१ ॥ ६२ ॥ तथा च समुदाये एव लक्षणा न प्रत्येकं तात्पर्य झा पकाभावादित्याह-* तात्पर्येति ? ॥ ६३ ॥ पदार्थे तात्पर्यान्व यानुपपत्तियां लक्षणा पर्दे वाक्यार्थे तद्वयानुपपत्या वाक्ये इत्यु भयत्र फलितमाह-* एत्र ' मिति ॥ ६४ ॥ ॥ वाक्ये लक्षणोपपत्ति: ॥ ननु सर्वपदानां लक्षकत्वं धाक्यार्थानुभवो न स्यालुक्षणिक