पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ सव्याख्याद्वैतासिद्धिसिद्धान्तसारे । [२ परिच्छेदे उपायो बोधसिद्वै स्यात्सर्वेभ्रान्तिनिवृत्तये ॥ ५२ ॥ सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृत्तिद्वारतः । पर्यवस्यन्ति तात्पर्य श्रुतीनां ब्रह्मणि ध्रुवं ॥ ५३ ॥ ब्रह्मबोधोपयोगित्वं सत्यादेर्भावरूपतः । अस्थूलत्वादिशब्दानामभावद्वारतो हि तत ॥ ५४ ॥ वादिनां कुमतप्राप्तातिव्याप्तिविनिवृत्तये । सत्यज्ञानादिशब्दानां स्यादपेक्षा समुच्चये ॥ ५५ ॥

  • इति ॥ ५२ ॥

उपाय तथा च मीमांसकमते अनृतस्याप्यधावार्थस्य सये प्राशस्त्य इव मिथ्याभूतानामपि व्यावृत्तीनां सत्ये ब्रह्मणि द्वारत्वेन बोधनं युक्तमित्यभिप्रेत्याह -“ सत्ये ?' इति ॥ ५३ ॥ प्रधानस्य ब्रह्माण प्रतिपत्त्युपयोगिनामानन्दादीनां भावरूपाणा'मा(१)नन्दादयः प्रधान स्ये'त्यनेनन स्थूलत्वादीनामभावरूपाणा'मक्ष(२)रधियां त्ववरोधः सा मान्यतद्भावाभ्यामौपसद्वत्तदुक्तिमित्यनेन च सूत्रेण निर्गुणब्रह्म प्रतिपत्तावेव सर्वशाखासूपसंहारस्य प्रतिपादितत्वेन द्वारसमुञ्चय स्यैवेष्टत्वमित्यभिप्रेत्याह -“ब्रह्मबोधेति'*हीति' । श्रुतिसूत्र प्रसिद्धं तत् ब्रह्मबोधोपयोगित्वमित्यर्थः ॥ ५४ ॥ ननु सगुणे ब्रह ण्युपासनार्थ भवतु शाखान्तरीयगुणोपसंहारो निर्गुणब्रह्मप्रमितौ तु किं शाखान्तरीयगुणोपसंहारेण सत्यादिपदानां प्रत्येक लक्षकत्वेन लक्ष्यब्रह्मबोधने प्रत्येकमेव समर्थत्वातू सत्यत्वादेश्च प्रत्येकं लक्ष णत्वातू न हि प्रकृष्टत्वादिकमिव सत्यत्वादिकमतिव्याप्तामित्याशङ्कद्य प्रकृष्टप्रकाशयोरिव सत्यादिपदानामपि कुमतप्राप्तातिव्याप्तिनिवृ त्यर्थे समुचयापेक्षणादित्यभिप्रेत्याह -* वादिनामिति ? ॥५॥ ( १ ) ब्र• सू० ३ । ३ । ११ ।.' ( २ ) ब्र • सू० ३ । ३ । ३३ । ।