पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० सव्याख्याद्वैतसिद्धिलिङ्कान्तसारे। [.२.परिच्छेदे लक्ष्यव्यक्तिरपि ब्रह्म सत्तादि न जहाति नः ॥ ४६ ॥ तात्पर्याविषयत्वेन धर्म वेदप्रकाशिताः । अतात्विका यतो वेदप्रामाण्यं तात्विकें मतं ॥ ४७ ॥ सत्यमिथ्यात्वभेदोऽपि लोकेऽवान्तरभेदतः । वस्तुमातपरत्वेऽपि बाधक-त्वं श्रुतेर्मतं ॥ ४८ ॥ दोषाप्रयुक्तभानत्वं सत्यत्वे हेतुतां भजेत् । स्वसमानसताकधर्मविरहेण तदुपपत्तेरित्यभिप्रेत्य कल्पतरुकृद्धच नमुदाहरति-“ सत्तादीना ' मिति । गौर्नित्यो गौरनित्य इ त्युभयत्राप्येकदेशान्वयार्थ लक्षणाऽभ्युपगमेपि जातिव्यक्तयोरुभयो रापि तार्किकैगपदार्थत्वाभ्युपगमाच्चेति भावः ॥ ४६ ॥ नन्वौपनि षदे पुरुष धर्मा न प्रत्यक्षेण प्राप्ताः किं तु तत्वावेदकेन वेदेन तथा श्व कथं व्यावहारिका इति चेन्नेत्याह-* तात्पर्येतेि * । वेदा - दापाततः प्रतीतानामपि वेदतात्पर्यविषयत्वाभावादतात्विकत्वोप पत्तेः तात्पर्यविषये हि वेदस्य प्रामाण्यं यत्र च तस्य प्रामाण्यं तदेव तात्विकृमिति नियम इत्यर्थः ॥ ४७ ॥ वेदतात्पर्याविषयत्वेनातात्वि कत्वे स्थिते तत्वावेदकबाध्यत्वव्यावहारिकावेदकबाध्यत्वाभ्यां व्या वहारिकप्रातिभासिकव्यवस्थोपपत्ते: न च तत्वावेदकस्य विशेष्यमा श्रपरत्वान्न बाधकत्वं विशेषणबुद्धिद्वारकत्वेन तन्मात्रपरस्याऽपि बाधकत्वसम्भवात् विशेषणेऽप्यधान्तरतात्पर्याभ्युपगमाद्धेति हृदि निधायाह-- * सत्येति ? ॥ ४८ ॥

॥ सत्यादिपदानां लक्षणयाऽखण्डार्थपरत्वे ऽनुपपत्तिनिरासः । ननु व्यावृत्तयः सत्था मिथ्या वा नाद्य: व्यावर्तकानामपि स यत्वक्षपन्ते: व्यावहारिकाणां पारमार्थिकव्यावृत्यसाधकत्वातू नान्य शुक्तः शुक्तितो व्यावृत्तेर्मिथ्यात्वे शुक्तित्वस्य शुक्तिसमसत्ताकत्व