पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यादिपदानां पर्यायत्वनिरासः । वाच्यार्थभेदात्सत्यादिगिरां पर्यायता न हि । |॥ ४३ ॥ त्रिकालाबाध्यताचैश्चानृतत्वादेरपोहनात् । व्यावर्तकत्वं प्रत्येकं सत्यादीनां गिरां भवेत् ॥ ४४ ॥ न पदान्तरवैयश्ध्यै स्वरूपेक्यपरन्त्वतः । व्यावृत्तिभेदबोधित्वात्प्रामाणिकतया तथा ॥ ४५ ॥ स(१)त्तादीनां तु जातीनां व्यक्तितादात्म्यकारणात् । सत्यादिपदानां पर्यायतापत्ति निरस्यति–“ वाच्यार्थभेदा दिति ” । सत्यत्वं ह्यस्मन्मते त्रिकालाबाध्यत्वं परमते कुम्भादि साधारणी परजातिः सत्यपदप्रवृत्तिनिमितं ज्ञानानन्दपदयोरपि अस्मन्मते अन्त:करणवृत्युपधानलब्धभेदचिदानन्दविशेषानुगते ज्ञा नत्वानन्दत्वे परमते तु स्वभावलब्धभेदज्ञानानन्दनिष्ठ अपरजाती प्रवृत्तिनिमित्ते तथा च लक्ष्यार्थाभेदेऽपि न पर्यायताशङ्कन । ननु कु म्भाद्यनुगतसत्तायां ब्रह्मलक्षणत्वायोगः मिथ्यासत्यानुगतसामा न्याभावातू तथा चानृताद् व्यावृत्यसिद्धेः त्रिकालाबाध्यत्वं ब्रह्मणि श्रौतमिति त्वन्मतहानापतेश्चेदित्याशङ्काह -* आदायेति ?’ । ब्रह्मणः सर्वाधिष्ठानतया तद्भपसत्तायाः सर्बनुस्यूतत्वेन जातित्व व्यपदेशादलू कल्पितधर्मत्वमादाय ब्रह्मवव्यक्तिकत्वाच्च सत्वं त्रिका लाबाध्यत्वमेवेति न तस्य श्रौतत्वहानिः तस्यानृतै प्रत्यधिष्ठानत्वेऽपि वातू आनन्दत्वादिकल्पि तजातिसाहित्येन लक्षणाक्तिः पररीत्येतिं तात्पर्यार्थः ॥ ४३ ॥ ४४ ॥ स्वरूपमात्रपरत्वेऽपि न पदान्तरवैवथ्यै व्यावृत्तिभेद्बोधनेन एदस्स मुदायात्मकस्य वाक्यस्य प्रामाणिकत्वेन च साफल्यमित्यर्थः ॥ ४५ ॥ प: व्यावहारिकस्य धर्मस्य सत्वेऽपि (१) कल्पतरौ १ । १ । २ ।