पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे ! [२ परिच्छेदे - . संशयोऽध्यस्तसामान्यधर्मधीजननो मतः । तस्मात्सम्यग्धियः सिद्धे शास्रारम्भादिसम्भवः ॥ ४०॥ स्वरूपस्य प्रमेयत्वादुद्देश्य-त्वविधेयते । सत्यादिद्वारतो ज्ञानादसाधारणनिश्चयः ॥ ४१ ॥ लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः । बीजत्वान्नान्वयासिद्धेः प्रकृते सैव सम्मता ॥ ४२ ॥ ॥ प्रतिकूलतर्कनिराकरणम ॥ ॥ ४० ॥ एकस्मिन्नपि कल्पितोद्देश्यविधेयभावसम्भवादप्राप्तविधे ८ ८ असाधाः रणेति ? । असाधारणस्वरूपस्य प्रमेयतया विधेयत्वात्सत्यत्वा दिद्वारकस्वरूपज्ञानेनासाधारणझापनपय्र्यवसानातू द्वारफलाया मप्राप्तप्रापणसम्भवातू तथा चोद्देश्यता विधेयता च. खरूपमाश्रप यैवसत्रैवेत्यर्थः ॥ ४१ ॥ तियोग्युपस्थितिरूपायास्तस्या असम्भवात्तद्बीजस्यान्धयानुपपत्ते श्चात्राभावादित्याशङ्कयाह-* लक्षणेति ?’ । वृत्त्या हि पदार्थो पस्थितिर्न तु सैव वृत्तिरतो नोक्तरूपा लक्षणा किं तु शाक्यसम्बन्धः स च प्रकृतेऽप्यस्त्यव उपस्थितिरूपत्वेऽपि लक्षणायास्तात्पर्यानुकू लोपस्थितिरेव सा नोक्तोपस्थितिरूपा अतात्पर्यविषयताद्दगुपस्थितौ गतत्वात् नाऽपि बीजानुपपत्तिस्तात्पर्यानुपपत्तेरेव बीजत्वादित्या ह--* तात्पर्येति । तात्पर्यानुपपतित: षष्ठयर्थे तसं नान्वया सिद्धेरेव बीजत्वंप्रकृते तात्पर्यानुपपत्तिरेव बीजत्वेन संमतेल्यर्थः॥४२॥