पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे न वा सत्प्रतिप्रक्षेोऽत्र शङ्कयोऽखण्डार्थसाधने । प्रतिकूलो यतस्तर्कः सर्वेषु प्रतिहेतुषु ॥ २२ ॥ दृष्टान्ते न शङ्कयं लक्षणेष्यते । साध्यवेकल्ल्य सर्गपरत्वाभावेऽपि स्वकरणकप्रमाविषयपदार्थसंसर्गपरत्वान्न व्य भिचारः खं च्छिद्रं कोकिलः पिक इत्यादौ चान(१)तिभिन्नार्थत्वे सा मानाधिकरण्यायोगेन छिद्रकोकिलार्दानां खपिकादिशब्दवाच्यत्व संसर्गपरत्वान्नव्यभिचार इत्याशङ्कय निरस्यात -* न वेति ?” । आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये चव संस्पृष्टरूपे पदार्थे व्यभिचारातू तयोरपि प्रमाणवाक्यतात्पर्य विषयत्वातू द्वितीयानुमाने प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेरणा प्रमितिविषयपरत्वमात्रेण वापपत्ता बाशष्टसाध्यस्य तत्रातन्त्रत्व नाप्रयोजकत्वातू अलक्षणवाक्यत्वस्योपाधित्वाञ्ध नाऽऽत्र सत्प्रति पक्षः सम्भवतीत्यर्थः । ननु वेदान्तजन्या प्रमा सप्रकारिका विचा तन्यत्वात संशयनिवर्तकत्वा द्वा कमेकाण्डजन्यज्ञानबत् वेदान्त जन्या प्रमा ब्रह्मप्रकारविषया ब्रह्मधर्मिकसंशयविरोधित्वाद्रह्मवि चारजन्यत्वाद्वा यदेवं तदेवं यथा कर्मकाण्डविचारजन्यो विनिश्चय इति प्रतिसाधनमस्त्वित्याशङ्का निरस्यति-“ प्रतिकूल * इति । त्वन्मते ज्ञानमात्रस्य सप्रकारत्वेन विचारजन्यत्वसंशयविरो धितयोव्र्यर्थत्वातू अप्रयोजकत्वात्तू नेनष्प्रकारकज्ञानादपि संश यादिनिवृत्तिसम्भवात् लक्षणवाक्याजन्यत्वस्योपाधित्वाञ्च अत एव द्वितीयानुमानमप्यपास्तम् । ब्रह्मनिष्टप्रकारविघयत्वसाधने दृष्टान्ता भावाञ्च सर्वेषु, च प्रतिसाधनेषु प्रोत्तरयावैयधिकरण्यापतिः प्र तिकूलतकोंऽवसेय इत्यर्थः ॥ २२ ॥ ॥ सत्प्रतिपक्षनिरासः ॥ ननु दृष्टान्ते साध्यवैकल्यं तथा हि प्रकृष्टप्रकाशादिवाक्यं न तावदभिधेयाखण्डार्थनिष्ठं प्रकृष्टादिपदस्याखण्डेऽभिधाया अभावातू त्वयाऽनङ्गीकाराश्च, नाऽपि लक्षणया प्रकृष्टप्रकाशस्य द्रव्यस्य गुणस्य ( ) भिन्नमत्यन्तभिब्रमतिक्रान्तीऽतिभित्री भैदाभूदान् तादृशार्थत्वाभावे इत्यर्थः ।