पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे आत्मस्वरूपमात्रैकनिष्ठं वेत्येव लाक्ष्यते ॥ १३ ॥ अकार्यकारणद्रव्यनिष्ठत्वे सति वस्तुतः । सामानाधिकरण्याद्वा तन्मात्रस्थेोत्तरत्वतः ॥ १ ४ ।। सोऽयमित्यादिवन्त्वित्थं मानमत्रानमानकं । सत्यादिवाक्ये तन्मात्रप्रश्नेतरतया मतं ।। १ ५ ॥ ब्रह्मवित्परमाझोतीत्यत्र ब्रह्मात्मवेदनं । इष्टसाधनभावन बुभुत्सा तत्र युज्यते ॥ १६ ।। तत्वमस्यादिवाक्येऽपि तन्मात्रप्रश्न उत्तरं । कोऽहमित्यात्मरूपस्य प्रश्श्रोत्तरतया भवेत् ॥ १७ ॥ यद्यप्येकं परं लक्ष्यं सत्यादिकगिरां मतं । ॥ १४ ॥१५॥ नचसत्यादिवाक्ये तन्मात्रप्रश्रोस्तरत्वमसिद्धमित्याह----

  • वह्मवेि'दिति । तन्मात्रस्यैव प्रश्रविषयत्वादित्यर्थः ॥१६॥ एवैत.

त्वमस्यादिवाक्येऽपि तन्मात्रप्रश्नोत्तरत्वं नासिद्ध मित्याह-“तत्त्व मितेि'|कोऽहमित्यात्मस्वरूपस्यैव प्रश्रविषयत्वेन तदधिकप्रत्युत्तर स्यायुक्तांरत्यर्थः ॥ १७ ॥ यद्यपि सत्याद्यन्यतमपदं खरूपलक्षणपरं ब्र ह्मणोऽन्यस्य तदाभासत्वातू तथाऽपि परैरापि सत्वस्य सत्वे सति ज्ञा नत्वस्य सत्यत्वे सति आनन्दत्वस्य शून्यवादिनाऽपि सत्वरहितज्ञाना नन्धात्मकत्वस्य ब्रह्मणोऽन्यत्राङ्गीकारान्मिलितं विना न निर्विचि कित्सम्रह्मसिद्धिरिति मिलितं लक्षणं, यद्यपि सर्वेषां सत्यादिप दानां लक्ष्यमेकमेव निर्विशेषं ब्रह्म तथाऽपि निवर्तनीयांशाधिक्येन