पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखडार्थेऽनुमानोपन्यासः । प्रवृत्तिहेतुभेदं हि स्वीकृत्यैवोच्यते नयात् । शुद्धे तात्विकसम्बन्धाभावादपि हेि लक्षणा । सिद्येदतात्विकेनैव सम्बन्धेन श्रुतेर्गिरां ॥ ११ ॥ अखण्डार्थपरंवाक्यं सत्यं ज्ञानमितेि श्रुतेः । तत्प्रातिपदिकाथैकनिष्ठ लक्षणवाक्यतः ॥ १२ ॥ तत्वमस्यादिकं बाक्यमखण्डार्थपरं मतं । प्रवृत्तिनिमित्तभेदेऽपर्यायत्वं स चानन्तादिपदेषु न सम्भवति शु द्वब्रह्ममात्रनिष्ठत्वादतो वेदान्तेषु लक्षणाव्याप्तिरिति चेन्नेत्याह--

  • प्रवृत्तीति ? ॥ १० ॥ शुद्धे सम्बन्धाभावात्कथं लक्षणेत्यत

आह-* शुद्धे ” इति । अतात्विकसम्बन्धेनैव लक्षणोपपत्ते नास्पदत्वेन शुद्धे न कल्पितसम्बन्धाऽसुपपत्ति: यथा चानन्तादिप दानां लाक्षणिकत्वेपि नान्तवत्वादिप्रसङ्गस्तथा वक्ष्यति इति ॥ ११ ॥ एवं लक्षणसम्भवे प्रमाणसम्भवोऽपीत्याह -“अखण्डार्थेति ’’ सत्यादिवाक्यमखण्डार्थनिष्ठ ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं वा लक्ष क्यवदिति पदार्थविषयाखण्डार्थत्वानुमानमिति सार्द्धयोजना ॥१२॥ तत्वमस्यादिवाक्यमखण्डार्थनिष्टमिति वाक्यार्थविषयाखण्डा र्थत्वानुमानमित्याह-“तत्वमस्यादीति ?' सार्द्धद्वाभ्यां ॥ १३॥