पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे पदवृत्तिस्मारितार्थातिरिक्तागोचरप्रमा ॥ ७ ॥ याऽस्तितज्जनकत्वं तन्नातिव्याप्त्याऽतिदूषितं । संसर्गसङ्गिसम्यग्धीहेतुता या गिरामियं । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ ८ ।। अविशिष्टमपर्यायानेकशब्दप्रकाशितं । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥ ९ ॥ पदवृत्तिस्मारितत्वातू नापि द्विषदन्नभोजननिषेधकेऽतिव्याप्तिः त त्राऽनिष्टसाधनत्वसंसर्गस्य पदवृत्त्यस्मारेिस्य प्रतिपाद्यत्वातू अश्र घट: कलश: इत्यादौ संसगप्रमापके एकार्थपरेऽतिव्याप्तिवारणा यापर्यायशब्दानामित्युक्त, पदज्ञाप्येत्युक्तऽर्थापत्या पदझाप्यमनिष्ट साधनत्वमादाय विषं भुङ्क्ष्वेतिं वाक्येऽतिव्याप्तिः स्यात्तद्वारणा यवृत्तीति । तथाऽप्यन्विताभिधानधादिमते शाक्तयाऽभिहितान्वय वादिमते लक्षणाया वाक्यार्थभूतसंसर्गस्य वृतिज्ञाप्यत्वातू सर्वत्र प्रमाणवाक्येऽति व्या:ि स्यात्तद्वारणायोक्त स्मारितति सार्द्धतात्प यथैः ॥ ७ ॥ अपययशब्दानां संसर्गगोचरप्रमितिजनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायेित्वं वा 5खण्डार्थत्वमित्यभिप्रे त्य तत्वप्रदीपिकाकृद्वचनं तलुक्षणपरमुदाहरति --* संसर्गेति ? तत्राप्येकत्वं प्रातिपदिकार्थस्यैकधर्मावच्छेदेन वृत्तिविषयत्वं नत्वे कमात्रव्यक्तित्वं अत एकदेशस्था वृक्षा धनमित्यादौ नाव्याप्तिः त दुक्त पञ्चपाद्यां 'पदानां परस्परानवच्छिन्नार्थानामन्याकाङ्कणा मव्यतिरिक्तकरसप्रातिपदिकार्थमात्रान्वय' इति तात्पर्यार्थः ॥८॥ तत्र , : कल्पतरुकृद्वचनमाह--“अविशिष्टेति ? ॥ ९ । ननु