पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ अद्वैतसिद्धिसिद्धान्तसारसङ्गहे । द्वितीयः परिच्छेदः मारभ्यते । आनन्दैकरसं ब्रह्म वेदान्तैकप्रमाणकम् । मुकुन्दमनिशं क्न्दे हृदि स्थितमन्नामयम् ॥ १ ॥ हेयं निरूप्य बन्धाख्यं तन्निवृतेर्निबन्धनम् । यज्ज्ञानं तदखण्डार्थमादेयमधुनोच्यते ॥ २ ॥ विशुद्धं सर्ववेदान्तप्रमेयं ब्रह्म चिद्धनम् । वन्दे स्वातन्दमद्वैतं कृष्णमदुतसुन्दरम् ॥ १ ॥ ध्यन्भगवन्तं मङ्गलति वेदान्तप्रमेयं श्रीकृष्ांगतत्वमनुसन्धत्ते

  • आनन्दे ' ति ॥ १ ॥ पूर्वोखरपरिच्छेदयोः सङ्गतिं प्रदर्शयन्

चिकीर्षितं प्रतिजानीते “ हेयमिति ' । अविद्यामूलकं कर्तृ त्वाद्यनर्थजातं सर्वथा हेयत्वेन शाखे प्रदर्शितं दृश्यबन्धं श्रुत्यनुकू लतकैर्मिथ्यात्वेन निर्णीतं तत्वज्ञानैकनिवत्यै सम्यङ्गिरूप्येदानीं त न्निवृयैकहेतुं 'सत्यं झानमनन्तं ब्रहोत्याद्यवान्तरवाक्यसहकृततत्व मस्यादिमहावाक्यप्रमाणकमखण्डब्रह्मात्मैक्यविषयं ज्ञानं तद्विषय तत्त्वम्पदार्थतत्त्वतदैकवाक्यार्थभूतमखण्डतत्वं सपरिकरं निरूप्यते " इत्यर्थः ॥ २ ॥ निरूपणप्रकारमेवाह अखण्डार्थ ' मिति। -“