पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे नाज्ञाननाशिकाऽविद्यावृत्तिः किं त्विदमाकृतिः । धीवृत्तिस्तदभिव्यक्तचैतन्यं रूप्यभासकं ॥ ५० ॥ नह्यवच्छेदकान्यत्वं फलभेदकरं मतं । किं तु व्यञ्जकभिन्न-त्वं तथा च परमार्थसत् ॥ ५१ ॥ चैतन्यं स्यादधिष्ठानमध्यस्तस्य च तद्वद्विधा । व्यावहारिकसचैकं द्वितीयं प्रतिभासिकं ॥ ५२ ॥ स्वप्रजागरयोस्तुल्या प्रतिभासैकसत्यता । अधिष्ठानमविद्यावच्छिन्नचैतन्यमेव हि ॥ ५३ ॥ थाः क्रममिदंरूप्याकारान्त:करणवृत्त्यविद्यावृत्तिप्रतिबिम्बिताभ्यां वा तदभिव्यक्ताभ्यां वा इदमंशावच्छिन्नतदनवच्छिन्नाभ्यां वा इदमंश रूप्याधिष्ठानचैतन्याऽभ्यां वा वेद्यत्वेनावच्छिन्नपफलस्य भेदात्कथं फलैक्यमनवच्छिन्नफलीभूतचिन्मात्राभेदस्य सर्वत्र समानत्वातू न होदमैशेऽपि तदवच्छिन्नमेव चैतन्यमुपादानं आत्माश्रयातू न वा रूप्ये इदमंशानवच्छिन्नमुपादानं इदं रूप्यमिति प्रतीत्यनुपपत्तेरित्या शङ्कय परेि हरति -“ नाज्ञानेति त्रिभिः ॥ ५०॥ ५१॥ ५२ ॥ नन्वेवं सत्त्वत्रैविध्यविभागो नोपपद्यते प्रातिभासिकाद्प्यपकृष्टस्य स्वाश्रूप्यस्य व्यावहारिकादप्युत्कृष्टाया विद्यानिवृत्तेः सद्भावादि ति चेन्नेत्याह--“ स्वात ” | खवप्रे प्रातिभासिकनिकृष्टत्वे प्र माणाभावातू तथा हि प्रातिभासिकन्वं हि प्रतिभासमात्रसत्वै तश्च स्वप्रजागरयोः समानं । ननु जागरे अधिष्ठानतावच्छेदकेदमंशस्या मिति चेन्न । स्वशे हि इदमो नाधिष्ठानावच्छेदकत्वे तुल्यवदारोप्य त्वा तत्राधिष्ठानमंविद्यावच्छिन्नमेव चैतन्यमित्यर्थः ॥ ५३ ॥