पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रजतश्रमस्य चाक्षुषत्वानुभवविरोधपरिहारः । १०१ द्वयोरध्यसनीयत्वादिदंरजतयो रपि । स्वप्रकाशतयाऽविद्याधिष्ठानस्य चिदात्मनः ॥ ४६ ।। चाक्षुषेदंमनोवृत्त्यवच्छिन्नचितिगाऽस्ति या । अविद्या तद्विवर्तत्वे चाक्षुषत्वोपचारतः ॥ ४७ ॥ स्वत एवास्त्युपाधित्वमविद्यावृत्तिभासके । चैतन्येऽस्मिन्नविद्याया वृत्तेर्नान्यदपेक्षणम् ॥ ४८ ॥ साक्षिवेद्यतया वृत्तौ नाज्ञानं यद्यपीष्यते । तथाऽपि तदवच्छिन्ने शुक्तयवच्छिन्नगं तमः ॥ ४९॥ रिति ?” । अविद्यावच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वादि त्यर्थः ॥ ४६ ननु रूप्यज्ञानस्याचाक्षुषत्वे रूप्यं पश्यामीति चाक्षु षंत्त्वानुभवविरोध इति नेत्याह -* चाक्षुषेति ?' । चाक्षुषेदं वृत्यवच्छिन्नचैतन्यस्याविद्यापरिणामत्वेन चाक्षुषत्वोपचारादित्य ॥ ४७ ॥ ननु रूप्यज्ञानस्याऽविद्यावृत्तित्वेन प्रातिभासिकतया प्र तिभासावश्यम्भावेनाध्यस्ताविषयज्ञानस्य चाध्यस्तत्वनियमेनाविद्या वृत्तेरपि “आविद्यावृत्तिप्रतिबिम्बितचैतन्यवेद्यत्वं एवै तस्य तस्यापेिं इत्यनवस्थेति चेन्नेत्याह-* स्वत इति । सत्यमेतत् न.पुनर नवस्था अविद्यावृत्तिप्रातिभासिकचैतन्ये आवेिद्यावृत्तेः स्वत एवो पाधित्वेन कृत्यन्तरानपेक्षत्वादित्यर्थ ॥ ४८ ॥ नन्विद् वृत्तेझतैकसत्त्वेन तद्वच्छिन्नचैतन्यगताज्ञानमेव ना स्तीति चेन्नेत्याह-“ साक्षीति ” । वृत्तेः साक्षिवेद्यत्वेन यद्य पि तंद्रोचराज्ञानं नास्ति तथाऽपि तद्वच्छिन्ने चैतन्ये शुक्तद्यवच्छि गोचराइज्ञानस्य सत्वातू तथा चेदंवृत्तिराश्रयावच्छेदिका न तु वि षयायच्छेदिकेति वस्तुस्थितिरिति तात्पर्यार्थः ॥४९॥ ननु त्वन्मते. य