पृष्ठम्:अद्भुतसागरः.djvu/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
अद्भुतसागरे

पराजितो ग्रस्यमानः । निष्प्रभमण्डलः सर्वग्रस्तः ।
अथार्धोदयास्तग्रहणफलम् । तत्र पराशरः ।

 यज्ञनैकृतिकविनाशायार्धोदितग्रहणम् ।

वराहसंहितायां च ।

 अर्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञाँश्च ।

भार्गवीये तु ।

 उदितो गृह्यमाणश्च हन्ति वेदविदो जनान् ।
 बालाँश्च जटिलान् हन्ति ये च काषायवाससः ॥

ऋषिपुत्रस्तु ।

 उदयेऽस्तमये वाऽपि सूर्यस्य ग्रहणं भवेत् ।
 तदा नृपभयं विद्यात् परचक्रस्य चागमम् ॥

अथोदितग्रहणफलम् । तत्र वृद्धगर्गः ।

उदितो गणमुख्याँश्च ब्राह्मणाँश्चापि पीडयेत् ।

उदितो नीललोहितः ।
विनाशाय ग्रहणमित्यनुवृत्तौ पराशरस्तु ।

 गुणाधिकगणमुख्यानामुदितस्य ।

सन्ध्याग्रहणफलम् । तत्र वृद्धगर्गः ।

 संध्याकाले तु गर्भस्था गृहीतः पीडयेत् प्रजाः ।
 गावो गर्भं विमुञ्चन्ति न च वर्षेत् पुरन्दरः ॥

सन्ध्यापरिमाणं सन्ध्यालक्षणं च वक्ष्यामः ।
अथ मोक्षलक्षणम् । तत्र पराशरः ।
 षड्विधो मोक्षो वामदक्षिणच्छर्दनाभिनिर्वहणान्तमध्यो नृपक्षयाभिवर्षणसुभिक्षशस्त्रकोपमध्यजनाक्षेमशरच्छस्यनाशकरः।
इति मोक्षषट्कस्य क्रमेणैतानि फलानि ।
वराहसंहितायां तु ।

 हनुकुक्षिपायुभेदाद्विर्द्विः संछर्दनं च मरणं च ।
 मध्यान्तयोर्विदरणमिति दश शशिसर्ययोर्मोक्षाः ॥