पृष्ठम्:अद्भुतसागरः.djvu/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
राहोरद्भुतावर्त्तः ।

हरिवंशे च कंसवधनिमित्तम् ।

 "ग्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत"[१]

पराशरस्तु ।

 गृहीतो यद्युदागच्छेदस्तं वा यदि गच्छति ।
 अयोगक्षेममाचष्टे त्रीणि वर्षाण्यसंशयम् ॥

बार्हस्पत्ये तु ।

 गृहीतो राहुणा सार्धमुत्तिष्ठति यदा शशी ।
 तदा धर्मपरिक्षीणा कलिमाविशति प्रजा ॥
 अमुक्तो राहुणा सार्धमस्तं गच्छति चन्द्रमाः ।
 तदा तमोमयस्तस्मान्मृत्युमाविशति प्रजा ॥

वृद्धगर्गस्तु ।

 गृहीतो यद्युदागच्छेदस्तं वा यदि गच्छति ।
 शारदं तु तदा शस्यं जातमात्रं विपद्यते ॥
 ग्रैष्मेण तत्र जीवन्ति नरा मूलफलेन वा ।
 भयदुर्भिक्षरोगैश्च तदा संक्षिप्यते जगत् ॥

भार्गवीये ।

 गृहीतो यद्युदागच्छे द्यदि वा प्रतितिष्ठति ।
 अयोगक्षेम आदेश्यस्त्रिषु लोकेषु दारुणः ॥

प्रतितिष्ठत्यस्तमेति ।

 शारदं त्रीणि वर्षाणि शस्यजातं न पच्यते ।
 निदाघेन्मत्र जीवन्ति प्रजा मूलफलेन वा ॥

आदित्यस्य [२]ग्रस्तोदयास्तमये विशेषो बार्हस्पत्ये ।

पराजितो राहुनिपीतमण्डलो विवर्णभावाधिगतोऽपि [३]निष्प्रभः ।
यदाऽस्तमायाति हिवै दिवाकरस्तदाऽऽशु विद्यात तु महज्जनक्षयम् ॥


  1. २३ अ. ३१ श्लो. ।
  2. तमोग्रस्तो यदोदेति इति च ।
  3. विवर्णसन्ध्याधिगतोऽपि इति च।