पृष्ठम्:अद्भुतसागरः.djvu/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
राहोरद्बभुतावर्त्तः।

 आधूम्रै क्षेमसुभिक्षमादिशेन्मन्दवृष्टिश्च ॥

भार्गवीये ।

 चक्राकारस्तु लोकानां घोरं जनयति ज्वरम् ।

स्वाभाविकवर्णानाह ब्रह्मगुप्ताचार्यः ।

 "आन्तद्यन्तयोः स धूम्रः कृष्णः खण्डग्रहेऽर्धतोऽत्यधिके ।
 ग्रासः कृष्णाताम्रः सर्वग्रहणे कपिलवर्णः” [१]

अथाङ्गारकादीनां ग्रहराशिस्थितफलं च वराहसंहितायाम् ।

 आवन्तिका[२] जनपदाः कावेरीनर्मदातटाश्रयिणः ।
 दृष्टाश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥

 ग्रस्ते ग्रहणराशिस्थिते । न तु चन्द्रादित्यवद्ग्रस्ते । चन्द्रग्रहणे छारिकाया भूछायाया भौमकक्षापर्यन्तमनुत्थानात् ।
भूछायापरिमाणम् ।

 खतिथिनगानललोचन- २३७१५०
  योजनदीर्घा च भवति भूच्छाया ।
 स्पृशति च बुधकक्षोपरि
  गजरसनृपयमशैल-७२१६६८ योजनान्येव॥

 रविग्रहे च सूर्यासन्नस्थानां ग्रहाणामस्तमितत्वाद्ग्रहणादर्शनात् । न च गणितानुमानमात्रेण ग्रहणफलं भवति ।
अत एव ग्रहसहितत्वमात्रमुक्तं वटकणिकायाम् ।

 सहितो ग्रहेण येन च तद्देशश्चाप्नुयात् पीडाम् ।

वराहसंहितायाम्।

 अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् ।
 स्त्रीनृपयोधकुमारान् सह विद्वद्भिर्बुधो हन्ति ॥
 ग्रहणोपगते जीवे विद्धं नृपमन्त्रिगजयध्वंसः ।


  1. ब्रह्मसिद्धान्ते चन्द्रग्रहणाधिकारस्य १२ श्लो. । तत्र ग्रासे स कृष्णातात्र' इति ।
  2. व्यावर्त्तका इति ख. ।