पृष्ठम्:अद्भुतसागरः.djvu/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
अद्भुतसागरे

वराहसंहितायां तु ।

 अशनिभयसंप्रदायी पाटलकुसुमोपमो राहुः ।

भार्गवीये ।

 ताम्रो भवति शस्त्राय रूक्षो भवति मृत्यवे ।
 नीलो लोहितपर्यन्तो राहुश्चरति भास्करे ॥
 पीडयेदाहिताग्नीँश्च ये चान्येऽग्न्युपजीविनः ।
 यदा त्विन्द्रधनुर्वर्णो राहुश्चरति भास्करे ॥
 अमात्यो हन्ति राजानं राजा वाऽमात्यमात्मनः ।

वृद्धगर्गस्तु ।

 राहुरिन्द्रधनुष्प्रख्यो भयादिव्याधिवर्धनः ।
 भयं घोरं विजानीयाद्रूक्षो यदि च दृश्यते ॥

पराशरः ।
 बालार्कांशुकपिलो दुर्भिक्षाय ।
वराहसंहितायाम् ।

बालरविकमलसुरचापरूपभृच्छस्त्रकोपाय ।

पराशरः ।
 नीलः स्तेयवृद्धये चैत्यविनाशाय। दूर्वाङ्कुरहरितो जनमरणाय । हरिद्रो व्याधये ।
वराहसंहितायां तु

 हरिते रोगोल्वणता शस्यानामीतिभिश्च विध्वंसः ।
 दूर्वाकाण्डश्यामे हारिद्राभे च निर्दिशेत्मरकम् ॥

भार्गवीये तु ।

 श्यामो भवति वाताय धूम्रो भवति वृष्टये ।
 हारिद्रः सर्वरोगाणां कोपं सृजति दारुणम् ॥

वराहसंहितायाम् ।

 कापोतारुणकंपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् ।