पृष्ठम्:अद्भुतसागरः.djvu/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
अद्भुतसागरे

पराशरः ।

कार्त्तिके सुभिक्षक्षेमारोग्याय काशिकोशलशूरसेनाभावाय च।

वराहसंहितायां तु ।

कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान्
 कल्माषानथ शूरसेनसहितान् काशीं न संतापयेत् ।
हन्यादाशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो
 दृष्टं क्षत्रियतापनं जनयति क्षेमं सुभिक्षान्वितम् ॥

वृद्धगर्गः ।

 पौर्णमास्यां यदा चन्द्रः कार्त्तिक्यामुपरज्यते ।
 पौण्ड्रान् कलिङ्गान् मत्स्याँश्च शूरसेनाँश्च पीडयेत् ॥

काश्यपः ।

 कार्त्तिके कोशला गावः प्रधानाश्चाहिताग्नयः ।
 वाधन्ते गणमुख्याश्च क्षत्रिया गोमिनस्तथा ॥
 सुवृष्टिर्जायते चापि शस्यसम्पत् तथोत्तमा ।
 प्राच्यां दिशि भयं ब्रूयात् क्षेममन्यत्र निर्दिशेत् ॥

पराशरस्तु ।

 मार्गशीर्ष मृगपौण्ड्रसोमपभयाय वृष्टये च ।

वराहसंहितायां तु ।

काश्मीरकान् कोशलकान् सपौण्ड्रान् मृगाँश्च हन्यादपरान्तकाँश्च ।
ये सोमपास्ताँश्च निहन्ति सौम्ये सुदृष्टिकृत् क्षेमसुभिक्षकृच्च ॥

सौम्ये मार्गशीर्ष ।
वृद्धगर्गस्तु ।

 मार्गशीर्षे गृहीते तु क्षेमं शस्यं च नश्यति ।
 पौराश्च भयमृच्छन्ति मृगाश्च सह सोमपैः ॥
 औशीनरान् काश्यपाँश्च ब्राह्मणाँश्च तपः स्पृशेत् |
 ग्रीष्मे शस्यं च भवति शारदं चोपहन्यते ॥