वानराणां नराणां च तथैव गजवाजिनाम् ॥
नानावादित्रशब्दानां फलं मासाद्विपच्यते ।
विडालनकुलानां च वराहव्याघ्रयोस्तथा ॥
श्रुग्वाऽन्तरिक्षे शब्दं तु फलं मासाद्विपच्यते ।
निगदितहो यस्य नक्षत्रे चन्द्रमाः परिविष्यते ॥
xxxxड्यते सावनृपतिः शस्त्रग्रामश्च जायते ।
सग्रहो यस्य नक्षत्रे सोमो ग्रस्येत राहुणा ॥
सराष्ट्र: सपुरो राजा क्षिप्रमेव विनश्यति ।
गृहीते राहुणा सोमे उल्कापातो भवेद्यदि ॥
षण्मासाभ्यन्तरे तत्र नगराद्भ्रश्यते नृपः ।
चन्द्रः प्रतिमुखस्तिष्ठन् सग्रहो यत्र दृश्यते ॥
सर्वधान्यानि शुष्यन्ति जातं जातं च नश्यति ।
कृत्वा शस्त्रं च रोगं च अनावृष्टिं तथैव च ॥
उपद्रवश्च भूतानां भिन्ने सोमे प्रवृश्यते "[१] ।
यदा त्वेते न पच्यन्ते यथाकालप्रचोदिताः ॥
तदा द्विगुणकाले च फलं विद्याच्छुभाशुभम् ।
बृहत्संहितायां वराह: ।
“पक्षाद्भानोः सोमस्य मासिकोऽङ्गारकस्य वक्त्रोक्तः ।
आदर्शनाच्च पाको बुधस्य जीवस्य वर्षेण॥
षड्भिः सितस्य मासैरब्देन शनेः सुरद्विषोऽब्दार्धात् ।
वर्षात् सूर्यग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः ॥
त्रिभिरेव धूमकेतोर्मासैः श्वेतस्य सप्तरात्रान्ते ।
- ↑ ग्रहाणामित्यारभ्यप्रदृश्यते.............प्रदृश्यते इत्यन्ताः श्लोकाः पुनरुल्लेखिता। बहूनां वचनानां साम्यान्न दोषाय ।